________________ [ 174 . व्याख्या-सुभग !-सौम्य ! लेखकेभ्यः-लिपिकारेभ्यः / अगणितानि अपरिमेयानि। वसूनि- .. धनानि / दत्वा, पुस्तकेषु, जैनागमं लेखय-तथा प्रिय !, त्वं पक्वानखण्डघृतपायसमुख्यभोज्य:-पक्कानी : घृतपूरादि खण्डं गुड़ादि, घृतं, पायसं क्षीरानं, तानि मुख्यानि येषु तादृशैः भोज्यैः खाद्यपदार्थैः / साधर्मिकान अविरतं-सततं / भोजय / / 89 / / साधून महाव्रतधरान प्रतिलाभयस्व, वस्त्रानपानवरमोदकखादिमाद्यैः। साध्वीश्च निर्मितविधापितकल्पितादि-दोषान् विधूय शुचिमानसवृत्तिसक्तः॥९० ___ व्याख्या-निर्मितविधापितकल्पितादिदोषान्-निर्मितं साध्वाद्यर्थ स्वयं कृतम् विधापितं परेणकारितम्, कल्पितम् साधुसाध्वीप्रतिलाभननिमित्तं पृथग् रक्षितमित्येवमादीन् दोषान् / विधूय-त्यक्त्वा।। शुचिमानसवृत्तिसक्तः-शुचिः पवित्रा या मानसवृत्तिः भावना तत्र सक्तः कृतासंगः सन् / वस्त्रानपानवरमोदकखादिमाद्यैः-वस्त्रमन्नं पानं वरं मोदकम् खादिमञ्च तदाद्यैः। महाव्रतधरान-साधून् / साध्वीश्च, , प्रतिलाभयस्व-सुपात्रदानं ददस्वेति भावः // 90 // अथ सत्यभामोक्तिमुपसंहरति-धर्ममितिधर्म समाचरत एवमचिन्तचिन्ता-रत्नं चिरत्नकृतदुष्कृतभङ्गहेतुम् / भावी तवापि तनयस्तदिहापि रम्यं, नो चेदमुत्र सुकृताचरणं सुखाय // 11 // व्याख्या एवम्-उक्तप्रकारेण / अचिन्तचिन्तारत्न-नास्ति चिन्ता यत्र तादृशं चिन्तारलं चिन्ता मणिरत्नं तत्तुल्यं / चिरत्नकृतदुष्कृतभङ्गहेतुं-चिरत्नं चिरात्कृतं यद् दुष्कृतं पापं तस्य भङ्गहेतुं नाशकम् / / धर्म, समाचरत, तत्-तस्माद्धर्मात् / इहापि-अस्मिन् लोकेऽपि / तवापि, तनयः-पुत्रः / भावी-स्यात् / नो चेत्-पुत्रो न भवेच्छेद / रम्यं-पवित्रं / सुकृताचरणं-धर्माचरणं / अमुत्र-परलोके / सुखाय-श्रेयसे स्यात् / अत्र कदाचिदपत्यफलाभावेऽपि परलोके श्रेयःप्राप्तिः फलमवश्यंभावीति न धर्माचरणस्य कदापि वैफल्यामिति तदवश्यं कार्यमिति भावः // 91 / / अथ धनदत्तस्य तदुक्तानुसरणमाह-शिक्षामिमामितिशिक्षामिमां तदुदितां विदितां महा-मादाय नैगमहापुरुषस्तथेति / सर्व तदाप्रभृति तत्सुगुरूपदेश-देशीयमारचयति स्म यथावदेष // 12 //