________________ [ 173 ] निवर्तयितुम्-शमयितुं / शक्यः, गाझ्यार्मि:-गङ्गाजलैरपि / नैव, शीतोपचारेण शरीरतापस्य शभः, न तु मनस्तापस्येत्यर्थः // 8 // 'अथ सत्यभामा पुन्नोपायमाह-श्रुत्वेतीतिश्रुत्वेति तत्सहचरी वचनं तदस्य, निःश्वस्य गाढमवदद्वदतां वरा सा / चिन्तामपास्य कुरु नाथ! विशिष्य पुण्यं, यत् स्यात्तदेव सकलाभिमतार्थसिद्धये // ___व्याख्या-तत्सहचरी-तस्य धनदत्तस्य सहचरी पत्नी। वदतांवरा-पदुवाक् / सा-सत्यभामा / अस्य-श्रेष्ठिनः / इति–उक्तप्रकारं / तद्वचनं-श्रुत्वा। गाढं-दीर्घ / नि.श्वस्य-श्वासं नीत्वा, एतेन तस्या अपि अनपत्यतया अत्यन्तं मनस्तापः सूचितः / अवदत्-किमित्याह / नाथ ! चिन्तामपास्य-त्यक्त्वा / विशिष्य-क्रियमाणादपि विशेषेण, पुण्यं / कुरु ? यद्-यस्मान् / तदेव-पुण्यमेव / सकलाभिमतार्थसिद्धयैसकलस्याभिमतस्येष्टस्यार्थस्य प्रयोजनाय सिद्धये / स्यात-प्रभवेत् / धर्मेणैव पुरुषार्थान्तरस्य सिद्धिरिति भावः / / 88 // विशिष्यधर्मप्रकारमेवाह-प्रासादमितिप्रासादमारचय तीर्थकृतां नवानि, विम्बानि तत्र विनिवेशय भावतस्त्वम्। पूजां विधापय सुवर्णविचित्रजाति - मुख्यैः सुमेर्भगवतां घनसारसारैः // 88 ___ व्याख्या-त्वं, प्रासाद-जिनचैत्यम् / आरचय-निर्मापय। तत्र-चैत्ये / भावतः-भावनापूर्वकम् / नीर्थकृतां-जिनेश्वराणां। नवानि-नूतनानि। बिम्बानि-प्रतिमाः / विनिवेशय-प्रतिष्ठापय / तथा सुवर्णविचित्रजातिमुख्यैः-सुष्ठ वर्णो उपलक्षणतया गन्धश्च यासां एवंविधा या विचित्रा नानाविधा जातयः मालत्यः 'जातिस्तु मालती' इतिहैमः, ताः मुख्यं येषु तैः। सुमैः-पुष्पैः। घनसारसारैः-घनसारः कर्पूरः 'घनसारश्चन्द्रसंज्ञः कर्पूरः' इत्यमरः, स सारः प्रधानो येषु तैः सुगन्धिद्रव्यैः। भगवतां-तीर्थकृतां / पूजां विधापय-कारय / / 88 // पुनः प्रकारान्तमाह-जैनागममितिजैनागमं सुभग ! लेखय पुस्तकेषु, दत्त्वा वसून्यगणितानि च लेखकेभ्यः / पक्कान्नखण्डघृतपायसमुख्यभोज्यैः, साधर्मिकानविरतं प्रिय! भोजय त्वम् // 89