________________ [172] व्याख्या-सुन्दगि ! भृपः-राजा। अपि यद् अपमान-तिरस्कारं / तनोति-करोति / तत्र-अपमानविषये। दोषः-अपराधः। निदानभावं-हेतुत्वं / समाश्रयति-दोषे सत्येव भूपस्तिरस्करोति, नत्व'न्यथेत्यर्थः। ननु तव निर्दोषत्वे किं प्रमाणमित्याह / शैशवभरस्य-बाल्यावस्थायाः। विपर्यये-परिवर्तने यौवनेऽपि. मया दोषाश्रितस्य-दुर्जनस्य / सविधेऽपि-समीपेऽपि / कदाचित् नास्थायि-निवासः कृतः / मम न दुर्जनसहवासः इति कुतो दोषसम्भव', 'संसर्गजा दोषगुणाः भवन्ती'त्युक्तेरिति भावः // 84 // नापि योषाविशेषविषयचिन्तेत्याह-नास्पृक्षदितिनास्पृक्षदन्यवनितामपि मामकीनं, किञ्चिन्मनस्विनि ! मनः सुकृतोपरुद्धम् / मिथ्यात्ववृत्तिमिव दुर्गतिपातभीत-मुचैस्तरप्रणयभावनिबद्धकक्षाम् // 85 // व्याख्या-मनस्विनि !-उदारचित्ते ! दुर्गतिपापभीतं-दुर्गतौ नरके 'स्यान्नारकरतु नरको निरयो दुर्गतिस्त्रियामि'त्यमरः, यः पातः पतनं गमनं तस्मात् भीतम्, अत एव / सुकृतोपरुद्धं-सुकृते धर्मे 'स्याद्धर्ममस्त्रियाम् पुण्यश्रेयसी सुकृतं वृषः', इत्यमरः, उपरुद्धम् बद्धम्,यद्वा सुकृतेनोपरुद्धम्, निवृत्तमोहविकृतिकम्। मामकीनं-मम मनः। उच्चस्तरप्रणयभावनिबद्ध कक्षाम्- उच्चस्तरः अत्युत्कटः यः प्रणयभावः प्रीतिः तत्र निबद्धा कृता कक्षा स्थितिमर्यादा बाहुमूलं मनोवृत्तिरिति भावः / यया सा तां तथा संभावनःविषयामपि / अन्यवनिताम्इतरयोषां, मिथ्यात्ववृत्तिमिव मिथ्यात्वस्य या वृत्तिः चित्तपरिणामः, तामिव / किश्चिदपि-ईपर्दाप / न-नैव / अस्पृक्षत्-अचिचिन्तत् / धर्मिष्ठो हि मिथ्याचारमिव परनियमपि दूरतः एव त्यजतीति भावः, उपमालङ्कारः // 85 // ननु तर्हि चिन्तायाः को हेतुरित्याह - किन्त्विति - किन्तु प्रवर्तयति तापमपारमेष, त्वत्कुक्षिजाततनयप्रतिपत्यभावः / यश्चन्दनेन न च चन्द्रमरीचिचक्रः, शक्यो निवर्तयितुमेव न गाङ्गवार्भिः // 86 // व्याख्या-किन्तु एषः-विद्यमानः / त्वत्कुक्षिजाततनयप्रतिपत्त्यभावः-त्वत्कुक्षेः त्वदुदरात जातो यस्तनयः तस्य प्रतिपत्तिः प्राप्तिस्तदभावः। अपारम्-असीमम् / ताप-दुःखं / प्रवर्चयति-करोति, अनपत्त्यतया चिन्तितोऽहमित्यर्थः, ननु तापस्य शीतोपचारेणैव शमो विधेय इति चेत्तत्राह / य:-तापः। चन्दनेन-प्रसिद्धशैत्येन मलयजेन / चन्द्रमरीचिचक्रे:-चन्द्रस्य मरीचीनां चन्द्रिकाणां चकैः समूहैश्च / न