________________ [ 171 ] अश्यप्रतिकारत्वाद्भाविनः पूजवेयं जलदेवतायाः इति मत्वा सन्तुष्यन्ति न तु खिद्यन्ति, पामरत्वानुषङ्गादिति मावः // 8 // ... रोगोऽपि न चिन्ताकारणं भवितुमर्हतीत्याह-कश्चिन्न रोगमितिकश्चिन्न रोगमधिगम्य नरो गतार्थः, सन्तापमाश्रयति विश्रुतबुद्धिधारः / यस्मादुपार्जितमवश्यमवेदयित्वा, ज्ञानाश्रयैरपि जिनेन च कर्म शक्यम् // 82 // व्याख्या-गतार्थः-सिद्धप्रयोजनः, विदितपरमार्थो वा / अथ च विश्रुतबुद्धिधार:-विश्रुता ख्याता बुद्धिधारा मतिसन्ततिर्यस्य सः, विद्वान् / कश्चिदपि नरः-पुमान् / रोग-व्याधिम् / अधिगम्य-प्राप्य / सन्तापं-सज्वरम् ‘सन्तापः सञ्वरः समा'वित्यमरः / न-नैव। आश्रयति-"आपत्स्वपि न मुह्यन्ति नराः पण्डितबुद्धयः” इत्युक्तेरिति भावः / कुत इत्याह-यस्माद्-हेतोः / ज्ञानाश्रयैः-ज्ञानिभिः / जिनैः-वीतरागैः अपि उपार्जितं-प्राक्सञ्चितम् / कर्म-पुण्यपापरूपम् / अवेदयित्वा-अभुक्त्वा / अवश्यं-ध्रुवम् / न च शक्यम्-क्षपयितुमिति शेषः / जिनरपि सञ्चितं कर्मावश्यं भोक्तव्यम्, का चर्चा इतरेषामिति / अवश्यं भाविनि भोक्तव्ये न शोचन्ति धीमन्तः इति भावः / / 82 // दु स्वप्नेऽप्यलं चिन्तयेत्याह-दुःस्वप्नमितिदुःस्वप्रमापतति भाविविशेष योगात्, पुंसां सुषुप्तिसमये . नियतेनियोगात् / दुःखं न तत्र विमृशन्ति विवेकभाज-स्तन्वन्ति शान्तिकविधि खलु तस्य शान्त्यै // व्याख्या-पुमां-नराणां / भाविवेशेषयोगात्-भाविविशेषस्य योगात् सम्पर्कात, भाविफलमधिकुत्य / नियते:-विधेः / नियोगात-प्रेरणया। सप्तममये-तिद्रितावस्थायाम्। दुःस्वप्नम् आपततिदुःस्वप्नदर्शनं जायते इत्यर्थः / तत्र-तथा सति / विवेकभाजः-ज्ञानिनः। दुःखं न विमृशन्ति-कुर्वन्ति। खलु-किन्तु / तस्य-दुःस्वप्नसूचितानिष्टस्य / शान्त्यै-उपशमाय / शान्तिकविधि-शान्तिक्रियाम् / तन्वन्तिअनुतिष्ठन्ति / अपायशमनोपाय एव पुरुषार्थः, चिन्ता तु कापुरुषचेष्टितमिति भावः // 83 // - . भूपकृतापमानस्यैव न संभवः, कुतश्चिन्तेत्याह-भूपोऽपमानमपि इति - भूपोऽपमानमपि सुन्दरि ! यत्तनोति, दोषः समाश्रयति तत्र निदानभावम्। . नास्थायि शैशवभरस्य विपर्ययेऽपि, दोषाश्रितस्य सविधेऽपि मया कदाचित् // 84