________________ [17] रिक्ता। पद्मनेत्रा-पद्म इव नेत्रे यस्याः सा तादृशी, नारी। चित्तं न तापयति-पीडयति, स्वविरहेणेति शेषः ।।दा अर्थहान्यादौ सत्यपि न चिन्ताऽवसरः इत्याह-प्रथस्य हानिमितिअर्थस्य हानिमुपलभ्य त एव तापं, कुर्वन्ति येऽर्जयितुमर्थमयेऽसमर्थाः / अस्मादृशाः पुनरुदारतयार्थहान्या, जल्पन्त्यमङ्गलमुपागतमाहतं नः // 8 // याख्या-अये ! इति कोमलामन्त्रणे। अर्थस्य-विभवस्य 'अर्थविभवा अपी'त्यमरः / हानिक्षतिम् / उपलभ्य-प्राप्य / ते एव ताप-दुःखं / कुर्वन्ति, ये अर्थ-वित्तम् अर्जयितुम्, उद्योगेन लब्धुम् / असमर्थाः-सामर्थ्यरहिताः, अलसा इत्यर्थः / पुनः किन्तु अस्मादृशाः-अर्थोपार्जनपटवः / उदारतयाउन्नतचेतस्कतया हेतुना / अर्थहान्या-वित्तव्ययेन, कृत्वा। न:-अस्माकम् / उपागतं-प्राप्तम् / अमङ्गलम्अशुभम्, 'कल्याणं मङ्गलं शुभमि'त्यमरः / आहतं-विनष्टम्, 'इतीति शेषः। जल्पन्ति-कथयन्ति, वित्तापाये कृपणा एव खिद्यन्ति नतूदाराः इति भावः / अत्र धनहानेः प्रतिकूलस्यापि अमङ्गलाऽपगमत्वेनानुकूल्येन वर्णनादनुकूलालङ्कारः, तल्लक्षणं यथा 'अनुकूलं प्रातिकूल्यमनुकूलानुबन्धि चेत् / ' तेन च महोत्साहसम्परत्वं व्यज्यते // 8 // पोतभङ्गेऽपि न चिन्ताक्सर इत्याह-ताम्यन्तीति ताम्यन्ति केऽत्र जलधावपि पोतभङ्गे, पूजा यतो भवति सा जलदेवतायाः। तीर्थङ्करस्य हि वरं प्रतिमाप्रतिष्ठा, कालेऽर्हणाप्यभिमता जलदेवतायाः // 1 // व्याख्या-अत्र-लोके। जलधौ-समुद्रे / पोतभङ्गे-पोतस्य यानपात्रस्य भङ्गे बुडने / अपि के ताम्यन्ति-खिद्यन्ति ? न केऽपीत्यर्थः / मादृशाः इति शेषः / अल्पमनस्कानां खेदावश्यम्भावाद न तूच्चैर्मनस्कानां / यतः हेतोः / सा-पोतभङ्गरूपा। जलदेवतायाः-वरुणस्य / पूजा भवति-पोतभङ्गद्वारेण जलदेवता पूज्यते इत्यर्थः / ननु पोतभङ्गेन जल्देवतापूजनं गृहदाहेनाग्निदेवतापूजनवदेवेति चेत्तत्राह / हि-यथा / तीर्थङ्करस्य-जिनपतेः / प्रतिमाप्रतिष्ठा-प्रतिमायाः प्रतिबिंबस्य प्रतिष्ठा मन्दिरादौ सोत्सवसमन्त्रकस्थापनम् / वरम्-अभिमतम् / तथेति शेषः / काले-तथासमये प्राप्ते / जलदेवतायाः अहंणा-पूजाऽपि-पूजा नमस्याऽपचितिसपर्यार्चाऽर्हणा समा'इत्यमरः / अभिमता-इष्टा पोतभङ्गे क्षुद्रा एव खिद्यन्ति, उदारास्तु