________________ [ 169 ] व्याख्या-तस्या:-सत्यभामायाः / वचनं निशम्य प्रहृष्टहृदयः-प्रसन्नः / अथ च सदयःदयैकमूर्तिः / दक्षः-निष्णातः प्रत्युत्तरकुशलः / सः श्रेष्ठी धनदत्तः / गिरं-वाणीम्, 'गीर्वाग्वाणी सरस्वती'त्यमरः / उज्जगार-उदाजहार, का सा वाणीत्याह / कान्ते !-प्रिये ! निर्व्याजभक्तिभरया-निर्व्याजा निष्कपटा या भक्तिः प्रेम्णः सेवाभावः तत्परया तदेकतानया। भवत्या-त्वया। अनुदीरितपूर्वम् ईदृक्वितर्कयुक्तं वचनं / किमेतद् जगदे-न वक्तव्यमित्यर्थः / असतः शङ्केव न कर्त्तव्येति भावः // 77 // अथ सा चिन्ता न त्वत्कृतवितर्कविषयविषयाऽतः वितर्वक्रमेणैव तदपाकरोतिऽतत्र प्रथमं चिन्ताविषयः गोप्यत्वान्निषेधसीति शङ्कानिवारणाय भवत्या किमपि न गोप्यमिति समादधति-गोप्यमिति गोप्यं बहिर्विषयतः क्रियतेऽपि धीरे-श्चित्तान्न किञ्चन विवेचनचारुबुद्धैः / मच्चित्तभित्तिमधिशय्य विरिञ्चिनाऽपि, पाञ्चालिकेव भवती लिखिता नवा किम्॥७८ . व्याख्या-विवेचनचारुबुद्धे !-विवेचने वितर्के चारुबुद्धिर्यस्याः सा, तत्संबुद्धौ, वितर्ककुशले ? धीरे:-धीराजमानैः बुद्धिमद्भिः। विञ्चन-रहस्य / वहिर्विषयतः-व्यक्त्यन्तरतः / गोप्यम्-अप्रकाश्यं / क्रियतेऽपि चित्तान-तदाधारत्वादिति भावः / नन्वेवमेतव, किन्तु नाहं तव चित्तम् इति चेत्तत्राह / किमिति–प्रश्ने / विरिञ्चिना-विधिनाऽपि-अपिना मयाऽपि / मञ्चित्तभित्ति-मम चित्तं भित्तिः कुड्य. मिव, चित्तमिव भित्तिरिति च ताम् / अधिशय्य-आश्रित्य,पट्टत्वेन प्रकल्प्य / पाञ्चालिका-पुतलिकेव भवतीत्वं / न वा लिखिता ?-चित्रिता, अपि त्ववश्यं लिखिता / एवञ्च चित्तस्थत्वाञ्चित्तमेव त्वमिति किं गोप्यं स्यात्त्वत्तः इत्यर्थः // 8 // अत्र क्रमशः कृतं वितके निषेधति-नैवार्थेतिनैवार्थहानिरुदधौ न च पोतभङ्गो, रोगो नकोऽपि शयने न च दुर्निरीक्षा। क्षमावासवस्य मम कोऽपि न चापमान-श्चित्तं न तापयति काचन पद्मनेत्रा // 79 // व्याख्या-अथहानिः-अर्थस्य वित्तस्य हानिः नाशः नैव। उदधौ पोतभङ्गः-पोतस्य यानपात्रस्य भङ्गः भञ्जनं न च / कोऽपि रोगः-व्याधिः / न-रोगव्याधिगदामयाः', इत्यमरः / शयने-स्वप्ने, 'स्यानिद्राशयनं स्वापः, स्वप्नः संवेश इत्यपि', इत्यमरः / दुनिरीक्षा-अनिष्टावलोकनं न च / मम मावासवस्य-रानः / कोऽपि ईषदपि / अपमानः न च-यतः, मम क्षमावासवः इति ध्वनिः / काचन-त्वदति