________________ [ 168 ] देहे-शरीरे। काचित्, रुजा-रोग एव बाधते-व्यथते। किमुत ? अथापि-अथवा। दुःस्वप्नदर्शनं जज्ञे किम्-अनिष्टसूचकः स्वप्नो विलोकितः / किमिति-वितर्कः // 74 // तस्याः वितर्कान्तरमाह-राज्ञोऽपमानमिति - राज्ञोऽपमानमथवा हृदये दधध्वे, योषां विशेषसुभगां यदिवापि काञ्चित् / चिन्तां यतो वहथ तेन वितर्कयामि, नाकारणं किमपि कार्यमवेक्ष्यते हि // 75 // ब्याख्या-अथवेति-पक्षान्तरे। हृदये-मनसि / राज्ञः-राजसम्बन्धि राजकृतमित्यर्थः / अपमानमानहानिम् / यदि वापि-अथवा / काचिद् विशेषसुभगां-मत्तोऽप्यधिकरमणीयां / योषां-नारी 'स्त्री योषिदवला योषा नारी सीमन्तिनी वधूरि त्यमरः / दधध्वे-धारयथ ? यतः-यस्माद्धतोः। चिन्तां वहय, तेन-हेतुना / वितर्कयामि-ऊहे / तत्र हेतुमाह / हि-यतः / किमपि कार्यम् अकारणम्-अकस्मात् / न अवेक्ष्यते-विलोक्यते, अतः चिन्ताकारणेन केनाऽपि भवितव्यमेवेति भावः // 5 // ___ननु गोप्यञ्चेञ्चिन्ताकारणं कथङ्कारं कथनीयमित्याशङ्कयाह-मत्तो न चेदितिमत्तोन चेद् हृदयनायक ! गोप्यमस्ति, सद्यः प्रसद्य तदिदं स्वयमेव वाच्यम् / यस्मान्मुखेन्दुवचनामृतमाऽऽप्य पत्युः, स्त्रीणां मनांसि समदं प्रमदं वहन्ति // 76 // __व्याख्या हृदयनायक !-प्राणेश्वर ! मत्तः-मामपेक्ष्य / गोप्यम्-अप्रकाश्यं / चेन्नास्ति तत्-तदा। सद्यः-सपदि / प्रसद्य-प्रसादं कृत्वा। स्वयमेव-नतु केनाऽपि द्वारेण / इदं-चिन्ताहेतुः / वाच्यं-कथनीयम्, स्वयमेव वाच्यमित्याग्रहः कुत इति चेत्तत्राह / यस्मात्-यतो हेतोः। स्त्रीणां-नारीणां / मनांसि, पत्युः-स्वामिनः / मुखेन्दुवचनामृतं-मुखमिन्दुश्चन्द्र इव तस्य वचनमेवामृतम् / आप्य-प्राप्य / समदंसगर्व पतिकृतबहुमानादिति भावः / प्रमदं-हर्षे / वहन्ति-धारयन्ति प्राप्नुवन्ति वा / / 76 / / अथ धनदत्तकृतोत्तरं प्रपञ्चयति-तस्या इति - तस्या निशम्य वचनं गिरमुजगार, श्रेष्ठी प्रहृष्टहृदयः सदयः सदक्षः / कान्ते! किमेतदनुदीरितपूर्वमीदृग, निर्व्याजभक्तिपरया जगदे भवत्या // 7 //