________________ [167 ] क्षेत्रं-पत्नी क्षेत्र भारतादौ भगाङ्गयोः, केदारे सिद्धम्पन्योरिति हैमानेकार्थः / पुरुषं पतिं विनेव / पुत्र विना भवनं-प्रासादः गृहं वा। सुषमां-परमां शोभा, 'सुषमा परमा शोभे'त्यमरः / न दधाति-धारयति / यथैव चन्द्रादि विना गगनादेर्शोभा न, तथैव पुत्रं विना भवनस्येत्यर्थः / अत्रापि मालोपमा // 7 // अथ तस्य पुत्र प्राप्त्युपायचिन्तामाह-तरिक करोमीति -- तत् किं करोमि कमहं शरणं प्रपद्ये ? कस्याश्रयामि सुगुरोश्चरणाब्जयुग्मम् / / यस्य प्रसादवशतस्तनयो ममापि, संपद्यते सपदि सम्मदमादधानः // 72 // - व्याख्या-तद्-तस्माद्धेतोः। अहं किं करोमि ? के शरणं-रक्षितारम्, 'शरणं वधरक्षित्रोः शरणं रक्षणे गृहे' इति कोषः / प्रपद्य-आश्रयामि ? कस्य सुगुरोः चरणाजयुग्म-चरणाब्जे इव तद्युग्मम् / माश्रयामि ? यस्य-सुगुरोः। प्रसादवशत:-प्रसन्नतातः / सम्मदं-हर्षम् / आदधानः-कुर्वन् / ममापि सपदि-सद्य एव, 'सद्यः सपदि तत्क्षणे', इत्यमरः / तनयः-पुत्रः / सम्पद्यते-स्यात् / / 72 / / ... अथ तत्र तत्प्रियायाः समागमनमाह-इत्यमितिइत्थं विचिन्तयत एव विभातकृत्यं, यावन्न तस्य मनसो विषय बभाज। तावत् समेत्य रभसात् सह संभ्रमेण, तत्प्रेयसी प्रियमिदं निजगाद वाक्यम् // 73 .. व्याख्या-इत्थं-पूर्वोक्तप्रकारेण / विचिन्तयत एव-सतस्तस्य-धनदत्तस्य। मनसः विषयंगोचरतां गतम् / विभावकत्यं-विभातस्य प्रभातस्य 'व्युष्टं विभातं द्वे क्लीवे पुंसि गोसर्ग इष्यते, प्रभातश्च' इत्यमरः / कृत्यं कार्य / यावन्न बभाज-पाप / तावदेव सम्भ्रमेण-त्वरया। सह रमसाद्-वेगेन हर्षेण वा / 'रभसो वेगहर्षयो रित्यमरः। तत्प्रेयसी-तस्य प्रेयसी प्रियतमा / समेत्य-समागत्य / प्रियं-स्वकान्तम्, प्रीतियुक्तं वा / इदं-वक्ष्यमाणं / वाक्यं-वचनं / निजगाद / / 73 // सा यदाह तत् प्रपञ्चयति-किं द्रव्यहानीतिकिं द्रव्यहानिरभवद्भवतां कुतश्चित्, किं यानपात्रमुदधौ निममज किञ्चित् ? काचिद्रुजा किमुत बाधत एव देहे, दुःस्वप्नदर्शनमहो किमथापि जज्ञे // 74 // .... व्याख्या-हो-आश्चर्ये। भवतां-युष्माकम् / कुतश्विद्धतोः। द्रव्यहानिः-वित्तनाशः / अभवत् किम् ?, किश्चित्-किमपि / यानपात्रं-वित्तपरिपूर्णः पोतः। उदधौ-समुद्रे / निममज्ज-मग्नं / किम् ? .