________________ [ 166 ] सर्वं तदेतदफलं तनयं विना मे, विद्यास्थितेर्गुणगणो विनयं विनेव / स्फाती रसेशितुरनल्पनयं विनेव, चारित्रमुज्ज्वलतरं च शमं विनेव / / 69 // .... व्याख्या-तदेतत्-पूर्ववर्णितं / सर्वम्-अखिलमेव / तनयं-पुत्रं / विना विद्यास्थितेः-विद्यायां स्थितिरवस्थानं यस्य तस्य विदुषः / गुणगणः-गुणसमूहः। विनयं-नम्रतां / विना इव, रसेशितः महीपतेः / स्फाति:-समृद्धिः / अनल्पनयं-अनल्पोऽपरिमितो यो नयः नीतिः तं / विना इव, उज्ज्वलतरंविशुद्धं / चारित्रं, शम-शान्तिवैराग्यादिकं / विना इव च मे मम अफलम्-निरर्थकम, नहि अपुत्रस्य धनं. शोभते, भोगकर्तुरभावादिति भावः / अत्र चैकस्मिन्नेव नानोपमानस्य प्रदर्शनान्मालोपमाऽलङ्कारः // 69 // . : ..... तनयं विना सर्वमफलमिति यदुक्तं तत्रैवोपमानान्तरमपि दर्शयति-नेपथ्यजातमितिनेपथ्यजातमखिलं तिलकं विनेव, शीलं विनेव विनयं सुभगं कलत्रम् / प्रासादसर्जनमिदं कलसं विनेव, काव्यं सुबद्धमपि चारुरसं विनेव // 70 // __ व्याख्या-तिलक-विशेषकं / विना अखिलं-समस्तं / नेपथ्यजातं-वेषरचनासम्भारमिव, .. शीलं-सदाचरणं / विना विनयं-नम्रतां / सुभगं-सुन्दरं। कलत्रं-नारी। चेव कलसं-प्रासादोपरिविरच्यमानसुवर्णादिकलसं / विना, इदं-प्रत्यक्षं / प्रासादसर्जन-प्रासादस्य चैत्यस्य सर्जन निर्माणमिव / चारसं-चारु सहृदयहृदयावर्जकं रसं शृङ्गारादिरसं। विना सुबद्धं-शब्दार्थालङ्कारादिप्रथितमपि, काव्यं-कविकर्मव - तनयं विना मे सर्वमफलमिति पूर्वेण सम्बन्धः / पूर्वोक्तमालोपमायामेतदपि नेयम् // 7 // ___पुत्रं विना भवनस्याऽपि न शोभेत्याह-पुत्रमितिपुत्रं विना न भवनं सुषमा दधाति, चन्द्र विनेव गगनं समुदग्रतारम् / / सिंह विनेव विपिनं विलसत्यतापं, क्षेत्रं स्वरूपकलितं पुरुषं विनेव // 71 // - व्याख्या-चन्द्रं विना समुदग्रतारं-समुदप्राः समुज्ज्वलाः ताराः नक्षत्राणि यस्मिन् तत्तादृशं / गगनंव्योमेव / विलसत्प्रतापं-विलसन् प्रकटः प्रतापः प्रभावः यस्य स तादृशं, प्रचण्डपराक्रमं / सिंह विना विपिन-वनमिव-'अटव्यरण्यं विपिनं गहनं काननं वनमि'त्यमरः / पुरुष-क्षेत्रज्ञं / विना-'क्षेत्रज्ञ. आत्मा पुरुषः', इत्यमरः। स्वरूपकलितं-स्वरूपेण आकृत्या कलितं युक्तं / क्षेत्रं-शरीरमिव, यद्वा स्वरूपविशिष्टं