________________ __ [165 ] सम्प्रति वृषभान् वर्णयति-ईशानवाहनेतिईशानवाहनमहावृषभानुकारा, भाङ्कारनादजितभाद्रपदाम्बुवाहाः। कैलासशैलशिखरोच्चतरप्रमाणाः, मद्गोकुलेऽत्र वृषभा बहवोऽपि सन्ति // 67 ___ व्याख्या-मद्गोकुले-मम गोकुलेगोष्ठे 'ब्रजं स्यात् गोकुलं गोष्ठमित्यमरः / अत्र,बहवः-अपरिमिताः / ईशानवाहनमहावृषभानुकारा:-ईशानस्य शिवस्य वाहनं यानं 'ईशानः शङ्करः', इत्यमरः / यो महावृषभः नन्दिनामवृषः ईशानस्य ईशानेन्द्रस्य द्वितीयकल्पाधिपतेर्वाहनं वृषभो वा, तमनुकुर्वन्तीति तादृशाः, शिववृषभतुल्याः ईशानेन्द्रवृषभतुल्या वा, तथा भाङ्कारनादजितभाद्रपदाम्बुबाहा:-भावारनादेन हम्भारावेण जितः परामूतः भाद्रपदमासस्याम्बुवाहो मेघो यैस्ते तादृशाः मेघवद्र्जमानाः / तथा कैलासशैलशिखरोच्चतरप्रमाणा:कैलासनामा यः शैलः पर्वतः तस्य शिखराव शिखरमपेक्ष्य उच्चतरमुन्नततरम् प्रमाणं मानमुच्छ्रायमानं येषां ते तादृशा अत्युच्चाः / वृषभाः-बलीवा। अपि सन्ति // 67 // सम्प्रति रत्नादिसमृद्धिमाह-वज्राकरेऽपोतिवज्राकरेऽपि न भवन्ति च यानि वज्रा-ण्यत्रैव तानि बहुधा द्युतिमन्ति सन्ति / माणिक्यमुख्यमणिसञ्चय एव सर्वः, सर्वात्मनैव गगने यदिवोडुचक्रम् // 68 ___ व्याख्या-वज्राकरेऽपि-वज्राणां हीरफाणामाकरः खानिः तत्रापि / यानि व्रजाणि-हीरकाणि / न भवन्ति–'वोऽस्त्री हीरकं पवा', वित्यमरः / द्युतिमन्ति-भास्वराणि / बहुधा-अनेकप्रकाराणि / तानिवाणि / अत्रैव-मम हये / एव सन्ति / तथा सर्व एव माक्यिमुख्यमणिसश्चय:-माणिक्यं मुख्यं प्रधान येषां तेषां मणीनांसश्चयः राशिः / सर्वात्मना-सर्वप्रकारेणैव-सर्वप्रकारमाणिक्यादिरत्नराशिर्मम हर्म्य इत्यर्थः। गगने-आकाशे / उडुचक्र-नक्षत्रसमूहः / यदिव-यथा तथा मम हर्ये रत्नसमूह इत्यर्थः / अत्र हीरकाणो वाकरेऽसत्वेऽपि गृहे सत्त्वोक्तेः विभावनाऽलङ्कारः / गृहे हीरकसत्वं हि वाकरे सत्वे एवेति हेतुं विना कार्योत्पत्तिवर्णनाव, तल्लक्षणं यथा-'विभावना विना हेतुं कार्योत्पत्तिर्यदुच्यते', इति / यानि वज्राकरे न तानि कुतो गृहे इति विरोधाभासः, विरोधपरिहारस्तु पूर्व वजाकरे आसन्, इदानीं तु न तथा तत्र सन्तीति दुर्लभहीरकराशिर्मम हर्म्य इति ध्वनिः / एवञ्च द्वयोः संकरः, उत्तरार्धे तूपमा निरपेक्षेति त्रयाणां संसृष्टिरलङ्कारः इति // 6 // सम्प्रति तनयाभावे सर्वमेतदनर्थकमित्याह-सर्व तदेतदफलमिति