________________ [164 ] स्तस्य राशिः सञ्चय इव “यवनालस्तु योनलः / इति हैमः / बृहत्कुवलिकाफलमावनन्ति-बृहत्महबकुव कुवलिकायाः बदर्याः फलं तस्येव मानं प्रमाणमेषामिति तानि तादृशानि 'कर्कन्धुः कुवली केलिवंदरी' इति हैमः / मुक्ताफलानि मौक्तिकानि, सन्तीति शेषः / अत्र लोकातिशयसम्पत्तिवर्णनादुदात्तालङ्कारः / तल्लक्षणं तु लोकातिशयसम्पत्तिवर्णनोदात्तमुच्यते इति एवमग्रेऽपि // 63 // 64 // पुनरतस्य चिन्तामेव प्रपञ्चयति-क्षौमाणीति-- क्षौमाणि सन्ति विविधानि विचित्रभाञ्जि, गोणीवदङ्गणगतानि पर शताति। मृत्सेष्टकावदमिताः कनकेष्टकाश्च, पाषाणवद्रजतखण्डकदम्बकानि // 65 व्याख्या-गोणी शाणी 'शाणी गोणी छिद्रवस्त्रे', इति हैमः / गौण्य इवेति गौणीवत, अङ्गणगतानि-.. अङ्गणे प्राङ्गणे गतानि स्थितानि। परःशतानि-शताधिकानि / विचित्रभाजि-विचित्रं विविधवर्ण भजन्ति इति तानि चित्रवर्णानि / विविधानि-नैकप्रकाराणि / क्षौमाणि-दुकुलानि,पट्टावासांसि क्षौमं दुकूल' इत्यमरः / यथा गोण्यः सर्वसुलभाः परःशताः प्राङ्गणे विलसन्ति तथा अतिदुर्लभान्यपि क्षौमाणि, इत्यर्थः / तथा मृत्से- . ष्टकावत्-मृत्सा प्रशस्तमृत्तिका "प्रशस्ता तु मृत्सा" इत्यमरः। तस्याः इष्टका पक्वपिण्डविशेषः, तद्वत् / अमिता:-असंख्याताः / कनकेष्टकाश्च-कनकस्य सुवर्णस्य इष्टकाः पुनः तथा। पाषाणवत्-पाषाणः प्रस्तरः तद्वव स इव / रतजखण्डकदम्बकानि-रजतानां खण्डाः फलकविशेषाः तेषां कदम्बकानि समूहाः राशयः / मन्ति-हम्ये इत्यनुषन्यते // 65 // _ इदानीमश्वसम्पत्तिमाह-वाहादिवाकरेतिवाहा दिवाकरमहारथवाहवाह - दोपहारपटिमानममी वहन्तः / संख्यातिगाः किमिह सन्ति न मन्दुरायां, सप्ताननं प्रथितनामतया हसन्तः // 66 व्याख्या-इह-अत्र मम। मन्दुरायां-वाजिशालायाम् 'वाजिशाला तु मन्दुरा'इत्यमरः। अमीपरिदृश्यमानाः / दिवाकरमहारथवाहवाहदोपहारपटिमानं-दिवाकरस्य सूर्यस्य यो महारथः विशालो रथः तं वहन्तीति ते तादृशाः ये वाहा, अश्वाः “वाजिवाहार्वगन्धर्वहयसैन्धव सप्तयः”, इत्यमरः / तेषां दर्पस्य अस्माकमेवं सामर्थ्यमित्येवं रूपस्य गर्वस्यापहारे दूरीकरणे पटिमानं नैपुण्यं / वहन्तः दधतः / प्रथितनामतया-प्रख्यातनामतया। सप्ताननम्-आदित्याश्वं / हसन्त:-तिरस्कुर्वन्तः। संख्यालिगा:-अपरिमिताः / वाहा:-अश्वाः। न सन्ति किम ?-अवश्यमेव सन्तीत्यर्थः // 66 //