________________ [163] अननि-जाता / सन्जाया एवानुभावो वैवयं तस्याः, नतु तत्र कारणान्तरमस्तीति भावः / अत्र लज्जया गौर्याः काठीत्वासम्बन्धेऽपि सम्बन्धोक्तेरतिशयोक्तिरलङ्कारः // 61 // . . अथ तया तस्य भोगसुखमाह-सार्द्धमितिसार्द्ध तयाप्यनुभवन् विषयोत्थसौख्यं, मासानिवागमयदद्भुतऋद्धिरब्दान् / मासान दिनानिव दिनानिव सोऽपि यामान, यामान क्षणानिव विचक्षणमौलिरत्नम * व्याख्या-तया-तादृश्या। अपि साद्ध-सह / विषयोत्यसौख्यं-विषयेण पञ्चेद्रियविषयेणोरथ जन्यं सौख्यं सुखम् / अनुभवन्-मुञ्जानः / अद्भुतऋद्धिः-अद्भुता असाधारणा ऋद्धिः सम्पत्तिर्यस्य स तादृशः। अत्र ऋकारे परे 'ऋत्यक,' इति पाणिनीयसूत्रेणासन्धिः। तथा विचक्षणमौलिरत्न-विचक्षणानां पण्डितानां मौलौ रत्नमिव विद्वद्वरिष्ठः / सोऽपि-धनदत्तोऽपि / अब्दान-वत्सरान् “संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समा” इत्यमरः। मासानिव, मासान दिनानिव, दिनान यामानिव-प्रहरानिव / यामान् धणानिव, अगमय-व्यत्याययति स्म / नहि सुखे कालगतिर्लक्ष्येति भावः // 62 // . . . अथ तस्य पुत्रचिन्तां प्रस्तौति-अन्येधुरितिअन्येधुरात्मसदनं समुपेत्य भूप -प्रासादतः सुदयया परिवीतमूर्तिः / पूजां वितत्य भुवनाधिपतेःप्रदोषे, संभाव्य विभ्रमवचोभिरसौ स्वजायाम् // 63 निद्रासुखं समनुभूय निशावसाने, किञ्चिद्विचिन्तयति स स्म परं प्रबुद्धः / मुक्ताफलानि यवनालकराशिवन मे, हम्प॑ बृहत्कुवलिकाफलमानवन्ति // 64 // ___ व्याख्या-अन्येद्युः- एकदा / सुदयया परिवोतमूर्तिः-सम्यग्दयाधर्मेण परिवीता व्याप्ता मूर्तिः स्वरूपं यस्य स तादृशः, मूर्तिसंलक्ष्यदयालुभावः / असौ-धनदत्तः। भूपप्रासादत:-भूपस्य राज्ञः प्रासादतः हर्म्यतः। आत्मसदनं-स्वगृहं / समुपेत्य-आगत्य। प्रदोषे-सायङ्काले, भुवनाधिपतेः-वीतरागस्य जिनेशितुः / पूजा, वितत्य विभ्रमवचोभिः-कृत्वा, विभ्रमस्य विलासस्य वचोभिः वचनैः परिहासवचनैः / स्वजायां-निजभायां सत्यभामां। संभाव्य-सम्मान्य / निद्रासुखम्, समनुभूय-सुप्त्वा / निशावसानेरात्र्यन्ते / परं-केवलं सुतरां। प्रबुद्धः-विनिद्रः सन् / सः किश्चिद्-किमपि। विचिन्तयति स्म-कि विचिन्तयति स्मेत्याह / मे-मम / हर्म्य-गृहे / यवनालकराशिवत-यवनालकः योनलाऽऽख्यधान्यविशेष