________________ [162] व्याख्या-य:-धनदत्तः / वीतरागपदपूजनम्-वीतरागस्य जिनेश्वरस्य पदयोः पूजनम् / आचचारकृतवान्, तथा। य:-धनदत्तः / श्रद्धया-भक्त्या च / गुरुपदप्रणति-गुरोः सद्गुरोः पदयोः प्रणतिं वन्दनं / चकार / यश्च हृदि दयासमुदितं-दयया कृपया समुदितं समन्वितं / धर्म बभार-दधार / यश्च रत्नत्रयंसम्यग्दर्शनज्ञानचरित्रलक्षणं / परमभूषणम्-परममुत्तमोत्तमं भूषणमलङ्कारणम् / आश्रयद्-दधौ, सम्यग्दर्शनादित्रयाराधनां चकार स श्रेष्ठी तत्राजनिष्टेति पूर्वेण सम्बन्धः / / 59 / / ___ अथ तस्य भार्या वर्णयति-भार्यापीति --- भार्याऽपि तस्य समपद्यत सत्यभामा, चन्द्रावदातघनसातगुणाभिरामा / पुण्यानुभावपरिपूरितचित्तकामा, शीलश्रियावमतविश्वविवर्तिवामा // 60 // व्याख्या-तस्य-धनदत्तस्य / मार्या-पत्नी। अपि चन्द्रावदातघनसातगुणाभिरामा-चन्द्रवदबदातैः विशुद्धैः घनैः बहुभिः सातैः सुखकरैः, मङ्गलमयैर्वा गुणैः दाक्षिण्यादिभिः कृत्वा अभिरामा मनोहरा / पुण्यानुभावपरिपूरितचित्तकामा-पुण्यस्य योऽनुभावः प्रभावः तेन परिपूरितः सम्पादितः चित्तकामः मनोरथो यस्याः सा तादृशी, तथा / शीलथिया-शीलस्य सञ्चारित्रस्य श्रिया शोभया यद्वा शीलेन श्रिया च / अवमतविश्वविवर्तिवामा अवमताः तिरस्कृताः विश्वे संसारे विवर्तिन्यः वर्तमानाः वामाः नार्यः यया सा बादशी / सत्यभामा तन्नाम्नी / समपद्यत-अमूव // 60 // तस्याः शीलदााय पुनराह-अङ्गिदानेति अङ्गदानकपटेन महेश्वरेण, संरक्ष्यमाणनिरवग्रहविभ्रमां यत् / गौरी जहास धनदत्तधनेशपत्नी, बीडां वहन्त्यजनि तेन च सात्र काली // 1 // ___व्याख्या-धनदत्तधनेशपत्नी-धनदत्तनामा यो धनेशः श्रेष्ठी तस्य पत्नी सत्यभामा / महेश्वरेणशिवेन / अर्धाङ्गदानकपटेन-अर्धाङ्गस्य यहानं वामेनार्दाङ्गेन धारणम्, तोग कपटेन च्छलेन। संरक्ष्यमाणनिरवनहविभ्रमां-संरक्ष्यमाणा चासौ निरवग्रहः निरङ्कुशः विभ्रमः विलासो यस्याः सा तादृशी तां, शिवेन हि न प्रेम्णाऽर्धाङ्गदानं कृतं किन्तु निरवग्रहविभ्रमेयं शीलं मा नशदिति धियेति भावः / अर्धनारीनटेश्वररूपेण शिवः गौरीमर्धाङ्गेन दधाविति पुराणम् / गौरी-पार्वती गौरवर्णा / यत्-यस्मात् / जहास-हसितवती, तव शीले न तव पत्त्युविश्वासः, यतस्त्वं निरवाहविभ्रमेत्येवमनादरसूचकम् हासं चकार / तेनहेतुना। चात्र सा-गौरी / ब्राडां-लज्जां / वहन्ती-लज्जिता सती। काली-कालवर्णा कालीति प्रसिद्धा /