________________ [ 161 ] नहि निर्मिमीते-अपितु सर्वमेव कर्तुं प्रभवति इत्यर्थः, तथा च तादृश्या सोमचन्या कात्यायनीजयो नानुपपन्नः // 56 // . अथ मङ्गलकुम्भपितरं वर्णयति-श्रेष्ठीतिश्रेष्ठी वरिष्ठगुणरत्नमहासमुद्र-स्तत्राजनिष्ट सुमतिर्धनदत्तनामा / राजप्रसादसदनं सदनन्तकीर्तिः, संख्यातिगद्रविणनिर्जितराजराजः॥५७॥ व्याख्या-तत्र-विशालायाम् / वरिष्ठगुणरत्नमहासमुद्रः-वरिष्ठानि श्रेष्ठानि गुणा एव रत्नानि तेषां महासमुद्र इव / सुमतिः-धीमान् / राजप्रसादसदनम्-राज्ञः प्रसादः प्रसन्नता तस्य सदनमास्पदम्, नृपकृपापात्रम्, सती उत्तमा अनन्ता च कीतिर्यस्य स सदनन्दकीर्तिः / संख्यामियत्तामतिगच्छन्तीति तानि संख्यातिगानि यानि द्रविणानि द्रव्याणि स्वर्णरत्नादीनि तैः कृत्वा निर्जित. अधीरीकृतः राजराजः धनाधिपः कुवेरः येन स संख्यातिगद्रविणनिर्जितराजराजा-धनदो 'राजराजो धनाधिपः',इत्यमरः / धनदत्तनामा श्रेष्ठी बजनिष्ट-जातः // 5 // सम्प्रति तस्मिन् सम्यग्दर्शनं निरतिचारमाह-शामितिशङ्कां कदापिन चकार विकारहीनो, नाकाङ्क्षणं कचन यो विचिकित्सनन। मिथ्यादृशां स्तवनसंस्तवने न चापि, सम्यक्त्वमात्ररतिरेव विवेकपात्रम् // 58 // व्याख्या-यः विवेकपात्रम्-विवेकस्य सदसद्भेदज्ञानस्य पात्रं भाजनम्, धनदत्तः, सम्यक्त्वमेव सम्यक्त्वमानं तस्मिन् रतिरनुरागो यस्य स-सम्यक्त्वमात्ररतिः एव-अभूदिति शेषः / अत एव विकारहीन:-विकारेण मिथ्यावासनादिना हीनः, निर्मलान्तःकरणः / कदापि शङ्कां-जिनोदिततत्त्वसंशयं / न चकार, आकाङ्क्षणम्-अन्यधर्मग्रहणेच्छाम्, न चकार / कचन-कुत्रापि / विचिकित्सनं-जिनोदितक्रियाफलसंशयं न चकार, तथा / मिथ्याशां-वीतरागवचनश्रद्धारहितानां / स्तबनसंस्तवने-स्तवनं स्तुतिः संस्तवनं परिचयश्च ते 'संस्तवः स्यान् परिचयः' इत्यमरः, न चकार, सम्यक्त्वपूतान्तःकरणानां हि कुतः अशचवसर इति भावः // 58 // यो वीतरागपदपूजनमाचचार, यः श्रद्धया गुरुपदप्रणतिं चकार / धर्म दयासमुदितं हृदि यो बभार, रत्नत्रयं परमभूषणमाश्रयद्यः // 59 //