________________ [ 160 ] याचकसमीहितानि सम्पादयामः, अयं त्वेक एवेति लज्जाहेतुरिति भावः / ते प्रसिद्धाः / पञ्च-सन्तानादयः / अपि-सुराणां देवानां शाखिनः सुरशाखिन:-कल्पद्रुमाः / नूनं-निश्चयेन, दुर्गं गन्तुमशक्यं यत् मेरुगिरेः गह्वरं कन्दरः तत्र बद्धः कृतः वासः यैस्ते दर्गमेरुगिरिगह्वरबद्भवासाः अभवन्-अन्योऽपि हि लज्जया दर्शनभयादगम्यं स्थानमाश्रयतीति भावः / अत्र स्वभावत एव मेरुस्थितेषु कल्पवृक्षेषु लज्जमानत्वेन सम्भावनान्नूनं शब्दवाच्योत्प्रेक्षालङ्कारः / / 54 / / / / युग्मम् / / अथ तस्य राज्ञः स्त्रियं वर्णयति-जायाऽपीति-- जायाऽपि तस्य समजायत सोमचन्द्रा, स्वाङ्गोत्थगौरिमपराजितसोमचन्द्रा। आस्यप्रभाहसितशाारदसोमचन्द्रा, सौजन्यवासपरिवर्द्धितसौम्यचन्द्रा // 55 // - व्याख्या-तस्य-वैरिसिंहस्य / जाया-भाया। सोमचन्द्रा-तन्नाम्नी। अपि-स्वाङ्गोत्थः निजावयवसमुद्भूतो यो गौरिमा गौरवर्णता तेन पराजितौ अधःकृतौ सोमः चन्द्रः चन्द्रसंज्ञः कपूरश्च यया सा स्वाङ्गोत्थगौरिमपराजितसोमचन्द्रा-“सोमो ग्लौ मृगाङ्कः" घनसारश्चन्द्रसंज्ञः कपूर" इत्यमरः / चन्द्रक:राभ्यामप्यधिकगौरवर्णा, तथा आस्यस्य मुखस्य या प्रभा कान्तिः तया हसिता तिरस्कृता शारदस्य शरदृतुस्थस्य सोमस्य चन्द्रस्य चन्द्रा चन्द्रिका यया सा। आस्यप्रभाहसितशारदसोमचन्द्रा-चन्द्रिकाया अप्यधिकाह्लादकमुखकान्तिः तथा सौजन्यस्य सत्प्रकृतित्वस्य वासेनाश्रयणेन परिवर्धितः लक्षणया प्रसादितः सौम्यो बुधः 'रोहिणेयो बुधः सौम्य' इत्यमरः, चन्द्रः राजा च यया सा। सौजन्यवासपरिवर्धितसौम्यचन्द्रानिजस्वभावेन प्रसादित सर्वलोका / समजायत-अभूत् // 55 // अथ तामेव प्रकारान्तरेण वर्णयति -सौभाग्येति - सौभाग्यलक्षणगुणेन विचक्षणा या, कात्यायनी पशुपतेर्दयितामजैषीत् / उल्लासियौवनविलासमनोहराङ्गी, किं शक्तिरप्रतिहता नहि निर्मिमीते // 56 // व्याख्या-या विचक्षणा-बुद्धिमती सोमचन्द्रा। सौभाग्यलक्षणगुणेन–सौभाग्यलक्षणेन गुणेन कृत्वा / पशुपतेः-शिवस्य / दयितां-प्रियां। कात्यायनी-पार्वतीम् / अजैषीत्-अधोऽकार्षीत् / “उमाकात्यायनी' इत्यमरः / ननु मानुष्याः पशुपतिदयिताजयो नोपपद्यते इति चेत्तत्राह, उल्लासि उद्गमनशीलं यद्यौवनं तारुण्यं 'तारुण्यं यौवनं समे” इत्यमरः, तस्य विलासेन सञ्चारेण मनोहराण्यङ्गानि यस्याः सा उल्लासियौवनविलासमनोहराङ्गी-रमणी / अप्रतिहता-अमोघा। शक्तिः-अस्त्र विशेषः सामर्थ्य वा, सेव / किं