________________ [ 159 ] वाराणसी दिविषदापगया यथैव, पाथोब्जिनीशसुतया मथुरा यथैव / श्रीकोशलाऽपि नगरी च यथा सरवा,या शिप्रयैव सरिताऽपि तथा विभाति // 52 ___ व्याख्या-यथैव-दिविषदो देवाः तेषामापगा नदी गङ्गा तया दिविषदापगया-वाराणसी काशी / यथैव, पाथोब्जिनीशसुतया-पाथः जलम् तज्जाता अब्जिनी कमलिनी तस्याः ईशः सूर्यः “ग्रहाब्जिनी-गोधु-पतिः” इति हैमः, तस्य सुतया कन्यया, यमुनया नद्या 'सूर्यतनया यमुना',' इत्यमरः / मथुरा-तन्नामनगरी। अपि-पुनः / यथा च श्रीकोशला नगरी-अयोध्यापुरी। सरवा-सरयूनामनद्या, च विभाति / तथा या-विशाला नगरी / शिप्रया-शिप्रानाम्न्या / एव सरिता-नद्याऽपि / विभाति-शोभते, अत्रैकस्मिनेवानेकोपमानस्थ प्रदर्शनात मालोपमानामाऽलङ्कारः / तल्लक्षणं यथा मालोपमा यदेकस्योपमानं बहु दृश्यते इति // 52 / / (पञ्चभिः कुलकम्) अथ तन्नगरराजं वर्णयति-लोकेति - लोकप्रशासननिमित्तविधौ नृसिंहः, प्रत्यर्थिपार्थिवमहेभविभेदसिंहः / आसीन्महीपतिरशेषमहेन्द्रसिंह-स्तत्राभिधानविदितः स तु वैरिसिंहः // 53 // व्याख्या-तत्र तु-विशालायाम् / लोकप्रशासननिमित्तविधौ-लोकानां प्रजानां यत्प्रशासन स्वस्वकार्यप्रवर्त्तनं तन्निमित्तविधौ तदुद्देश्यकक्रियायाम् / नृसिंहः-नृसिंह इव उग्रः, यद्वा नृषु मनुष्येषु सिंह इव सिंहः नृसिंहः, एतेन लोकानां स्वाचरणवैमुख्यसम्भावना निरस्ता, तथा। प्रत्यर्थिपार्थिवमहेभविभेदसिंह:-प्रत्यर्थिनः विद्वेषिणो ये पार्थिवाः राजानः महेभाः महागजाः इव तेषां विभेदे विनाशने सिंह इव / तथा अशेषमहीन्द्रसिंहः-अशेषेषु समस्तेषु महीन्द्रेषु राजसु सिंहः; सिंह इव पराक्रमशालित्वात् / अभिधानविदित:-अभिधानेन नाम्ना विदितः ख्यातः / स-प्रसिद्धः / वैरिसिंहः-इत्याख्यः। महीपतिःराजा / आसीत् // 53 // अथ तस्य राज्ञः दानशोण्डत्वमाह--एकेन येनेति - एकेन येन सकलार्थिसमीहितानि, सम्पादितानि समवेक्ष्य विलजमानाः / ते दुर्गमेरुगिरिगह्वरबद्धवासाः, पञ्चापि नूनमभवन्सुरशाखिनोऽपि // 54 // व्याख्या-येन-वैरिसिंहनृपेण। एकेनैव-सकलानामर्थिनां याचकानां समोहितानि अभिलषितानि / सकलार्थिसमीहितानि सम्पादितानि समवेक्ष्य-विलोक्य / विलज्जमाना:-त्रपावन्तः वयं पञ्च