________________ [ 158 ] रहितम्, उपमानविवर्जितम्-नहि तत्सदृशं किमपि, यत्तदुपमानं स्यादिति भावः / नन्वमृतमेवोपमानं वर्तते इति चेन्न-तदाह / यदि अन्यद्-अस्योपमानममृतादि / भवेत् स्यात् / कुतः- कस्माद्धेतो परिदृश्यते अवलोक्यते, यदि हि स्यात् परिदृश्येत, न च दृश्यते / तस्मात् तद्विशालाजलमपि / अमृतमेव-अन्यस्यानुपलब्धेः, इति वितर्कयामः-निश्चिनुमः / अत्र चानुमानाऽलङ्कारः, स्फुट एव पश्चावयववाक्यस्यैव प्रयोगात् // 49 // अथ तत्र धार्मिकजनसत्त्वमाह-एकाग्रमानेतिएकाग्रमानसतया महतां जिनेन्द्रान्, साधून गुरून् प्रणमतां ददतां धनानि / साधर्मिकानपिच भोजयतां यथेच्छं, यस्यां दिनानि किल पुण्यवतामगच्छन् // 50 व्याख्या-यस्यां-विशालायाम् / एकाग्रमेकतानमचञ्चलं मानसं यस्य तद्भावस्तत्ता तया एकाग्रमानसतया श्रद्धयेत्यर्थः / जिनेन्द्रान साधून गुरून प्रणमता / तथा धनानि ददताम्-दानं कुर्वतामित्यर्थः / अपि-पुनः / साधर्मिकान्-समानो धर्मो येषां ते सधर्माणः त एव साधर्मिकास्तान् सजातीयान् | यथेच्छम्-इच्छानुरूपं / भोजयताश्च पुण्यवतां-धार्मिकाणां। महताम्-उदारचित्तानां / दिनानि-दिवसाः / अगच्छन्-व्यतियन्ति स्म / किलेति-प्रसिद्धौ / धर्माचरणेनैव तत्रत्यानां दिनानि व्यतियन्ति स्मेति भावः / / 5 / / अथ तत्र गुणसम्पत्तिमाह-सद्विद्ययैवेतिसद्विद्ययैव विनयः कृपयैव धर्मः, स्नेहः प्रकर्षमतुलं कलयन्प्रकृत्या / त्यागः श्रिया सह समेत्य कुटुम्बभाव-मापद्य यत्र वसति स्म नयेशभाजि॥५१॥ व्याख्या-यत्र नरेशभाजि-नवेशं नीतिमन्तं भजतीति तस्याम् नीतिमज्जनविराजितायाम्, यद्वा नयेशं प्रकृष्टनयं भजतीति तस्यां विशालायाम् / सद्विद्यया एव विनयः कृपया एव धर्मः स्नेहः-प्रेमाः / प्रकृत्यास्वभावेनैव / अतुलम्-अनुपमं / प्रकर्षम्-अतिशयं। कलयन्-धारयन् / त्यागः-दानं / त्रियासम्पत्त्या / सह समेत्य-मिलित्वा। कुटुम्बभावम्-सपरिजनत्वम् / आपद्य-प्राप्य / वसति स्म-विद्यावान् विनयी कृपाशीलः धर्मात्मा प्रकृत्या स्नेही, दानी, लक्ष्मीवान् तत्रत्यः प्रत्येक लोक इत्यर्थः, नतु गुणानां परस्पर विरोध इति भावः / / 51 // अथ तत्र शिप्रानामनदीत्याह-वाराणसीति