________________ [157 ] श्यामाककोद्रवकुलित्थकराजमाषा-कङ्ग्वादिकं कदशनं समवेक्ष्यते न / विज्ञायते न खलु यत्र च नालिकेर-द्वीपाधिवासिपुरुषैरिव जातवेदाः // 47 // व्याख्या-यत्र-अवन्त्यां / कुत्सितमशनं भोज्यं कदशनम्-कदन्नम् / श्यामाकश्च कोद्रवश्च कुलित्थकश्च (कुलत्थिका) च राजमाषा च कश्चिादिर्यस्य तत् श्यामाककोद्रवकुलित्थकराजमाषाकङ्ग्वादिकम्सर्वे एव श्यामाकादयो धान्यविशेषाः / न समवेक्ष्यते-विलोक्यते, सर्वे एव जनाः तत्र स्वन्नभोजिन इति भावः / तथा नालिकेरद्वीपाधिवासिपुरुषैरिव-यत्र / जातवेदा:-अग्निः / न खलु विज्ञायते-लोकैरिति शेषः / नालिकेरद्वीपवासिनो नाग्निं जानन्तीत्यागमः / अयत्नसिद्धान्नभोजिनस्तत्र सर्वे इति भावः // 47 // अथावन्त्यां विशालानामनगरीस्थितिमाह-तत्रास्तीतितत्रास्ति चैत्यरुचिरा नगरी विशाला, शश्वत्समृद्धिसमुदायमहाविशाला। अभ्रङ्कषोचकपिशीर्षकशालिशाला, शुभ्रांशुमण्डलसमुज्ज्वलचित्रशाला // 48 // व्याख्या-तत्र-अवन्त्यां। चैत्यरुचिरा-चैत्यैः जिनप्रसादैः कृत्वा रुचिरा मनोहरा / शश्वत्समृद्धि समुदायमहाविशाला-शश्वत्स्थिरा समृद्धिः सम्पत्तिः येषां ते तादृशाः शश्वत्समृद्धयः तेषां समुदायेन महाविशाला अतिमहती। अभ्रङ्कपोच्चकपिशीर्षकशालिशाला-अभ्रङ्कषाणि गगनचुम्बीनि उच्चानि उन्नतानि च यानि कपिशीर्षकानि प्राकाराग्राणि 'प्राकारानं कपिशीर्षमिति हैमः, तेः शालन्ते इत्येवंशीलाः शालाः यत्र सा तादृशी,. तादृशप्राकारपरिवेष्टितगृहवती "आलयो निलयः शाला" इति हैमः / शुभ्रांशुश्चन्द्रः तस्य मण्डलं बिम्बं तद्वद्समुज्वलाः धवलाः चित्रशालाः जालिन्यो “चित्रशाला तु जालिनी'ति हैमः, यस्यां सा शुभ्रांशुमण्डलसमुज्ज्वलचित्रशाला, विशाला-उज्जयनीत्यपरनाम्नी। नगरी अस्ति / / 4 / / ___अथ विशालानगरजलं वर्णयति-यस्याः इतियस्याः प्रसिद्धममृतं किमु नामृतं त-न्माधुर्यधुर्यमुपमानविवर्जितं यत् / अन्यद्भवेद्यदि कुतः परिदृश्यते न, तस्मात्तदप्यमृतमेव वितर्कयामः // 49 // ____व्याख्या-यस्याः-विशालायाः / अमृतं-पयः ‘पयः कीलालममृतमित्यमरः। किम-किम्विति . प्रश्नकाकु: / प्रसिद्धम्-समुद्रोत्पन्नम्। अमृत-सुधा / न ?-अपि तु तदेव, कुत इत्याह / यत्-यस्मात् / तत् माधुर्यधुर्यम्-माधुर्यस्य धुर्यम् अयं सर्वाधिकमधुरमित्यर्थः / किञ्चोपमानेन सादृश्यप्रतियोगिना विवर्जितं