________________ [ 156 ] आख्यया--नाम्ना। एव अवन्ति-रिति / विषयः-जनपदः / प्रथितः-ख्यातः / अस्ति, तेनैव वासितत्वादिति भावः // 44 // तत्र सर्वदा सुभिक्षस्थितिमाह-क्षेत्रेष्विति - क्षेत्रेषु यत्र विविधैरपि धान्यजातै-र्जातैः समस्तधरणीतलपूर्तिकारैः / स्वस्यावकाशमधिवस्तुमविन्दमानं, दुर्भिक्षमन्यविषयं रभसाद् बभाज // 45 // . व्याख्या-यत्र--अवन्त्यां। क्षेत्रेषु--केदारेषु 'क्षेत्रे तु वप्रः केदारः', इति हैमः विविधैः-अनेक प्रकारैः सर्वैरपीत्यर्थः / “धान्यं तु सस्यं” इति हैमोक्तेः धान्यजातै:--सस्यसमूहैः। समस्तधरणीतलपूर्तिकारैः-समस्तस्याखिलस्य धरणीतलस्य पृथिवीतलस्य पूर्तिकारैः भरणकारैः / जातैः-सम्पन्नैः / स्वस्य-- निजस्य / अधिवस्तुम्-आवासम् कर्तुम् / अवकाशं-रिक्तस्थानम्। अविन्दमानम्-अलभमानं / दुर्भिक्षंदुष्कालः / रभसाद्--वेगेन / अन्यविषयम-.अन्यदेशं / बभाज--सिषेवे / तत्र सदैव सुभिक्षमासीदित्यर्थः / अलब्धावकाशो हि स्थानान्तरं गच्छत्येवेति भावः / अत्र दुर्भिक्षे निर्वासितत्वव्यवहारस्यासम्बद्धस्याप्युक्तेरतिशयोक्तिरलङ्कारः / / 45 // तत्रेक्षुबाहुल्यमाह-तुङ्गेविति तुङ्गेक्षुदण्डविपिनं मिलिताग्रभागं, पार्श्वद्वयेऽपि सरसं समवेक्षमाणः / नैदाघदाघसमयेऽपि पथि प्रवृत्ताः, पान्थाः! श्रमं किमपि यत्र न जानते स्म // 46 ___ व्याख्या-यत्र-अवन्त्यां / पथि-मार्गे / प्रवत्ताः-चलिताः / पान्थाः-अध्वगाः। पाद्वयेऽपिइतस्ततः / सरसं-रसेन सहितं, हरितं, मनोहरं वा, मिलिताः परस्परसम्पृक्ताः अग्रभागाः शाखाप्रान्ताः यस्य तत् मिलिताग्रभागम् / अनेनच्छायासम्पत्तिरुक्ता : / तुङ्गेक्षुदण्डविपिनं-तुङ्गानामत्युच्चानामिक्षुदण्डानां विपिनं / समवेक्षमाणाः-अवलोकयन्तः / नैदाघदाघसमयेऽपि-निदाघः ग्रीष्मर्तुः तस्यायं नैदाघो यो दाघस्तापः, दहनं, दाघः, भावे घय / तस्य समयेऽपि / किमपि-ईषदपि / श्रमं-खेदं / न जानते-समधिगच्छन्ति स्म। अत्र खेदकारणस्य निदाघसमयस्य सत्त्वेऽपि खेदाभावोक्तेः विशेषोक्तिरलङ्कारः / तल्लक्षणन्तु सति हेतौ फलाभावे विशेषोक्तिः प्रकीर्तिता इति // 46 // तत्रानायासमेव भोज्यपदार्थसम्पत्तिरित्याह-श्यामाकेति