________________ [ 155 ] धर्म चतुर्विधमपीदृशमेव यो वा, निर्माति निर्ममवरैरुपदिष्टमेतम् / जन्तुर्भवेद् गतिचतुष्टयविषमुक्तः ख्यातिं दधजगति मङ्गलकुम्भवत्सः // 42 // व्याख्या-यः वा जन्तुः एतं-पूर्वोक्तम् / निर्ममवरैः-वीतरागैः, जिनेश्वरैः। उपदिष्टं-कथितम् / चतुर्विधं धर्मम.ईदृशम- यथोक्तमेव / निर्माति-करोति / सः-जन्तुः / मङ्गलकुम्भवत्-मङ्गलकुम्भः तन्नामा श्रेष्ठिपुत्रस्तद्वत्। जगति-लोके / ख्याति-प्रसिद्धिं / दधत्-प्राप्नुवन् / गतिचतुष्टयविप्रमुक्त:--गतिचतुष्टयेन विप्रमुक्त: वियुक्तः मुक्तः इति यावत् / भवेत् // 42 // __ सम्प्रति मङ्गलकुम्भाख्यानमाचिख्यासुराह-संजज्ञिरे इतिसंजज्ञिरे प्रथमतीर्थकरस्य तस्य, पुत्राः शतं भरतचक्रिमुखा नरेन्द्राः / ज्ञानत्रयावगतविश्वविशेषकृत्यः, सांसारिकव्यवहति समदीदृशद्यः // 43 // ___ व्याख्या-तस्य-प्रसिद्धस्य / प्रथमतीर्थकरस्य-श्रीवृषभाख्यतीर्थङ्करस्य / नरेन्द्राः-राजानः / भरतचक्री भरतनामचक्रवर्ती स मुखं प्रथमः येषां ते भरतचक्रिमुखाः, शत-शतसंख्याकाः / पुत्राः संजज्ञिरेजाताः / तस्य कस्येत्याह / य:-तीर्थङ्करः / ज्ञानत्रयावगतविश्वविशेषकृत्यः-ज्ञानत्रयेण मतिश्रुतावधिलक्षणेन अवगतं ज्ञातम् विश्वस्य संसारस्य विशेषमसङ्कीर्ण कृत्यं, यद्वा अवगतानि ज्ञातानि विश्वानि अखिलानि विशेषकृत्यानि भिन्नभिन्नतत्तत्कृत्यानि येन तादृशः सन् / सांसारिकव्यवहृति - सांसारिकाणां सांसारिकी वा या व्यवहृतिः व्यवहारः क्रिया भिन्नभिन्नमर्यादा ताम् / समदीदृशत-दर्शयति स्म / प्रथमतीर्थकर एवाद्यसांसारिकव्यवहारव्यवस्थामकरोदित्यागमे प्रोक्तमिति भावः // 43 // सम्प्रति मङ्गलकुम्भकथाङ्गतयाऽवन्तीनगरेतिहासमाह-तेषु प्रतापभवनमितितेषु प्रतापभवनं समजायतैकः, श्रीमानवन्तिरिति विश्रुतनामधेयः / पुत्रः पवित्रचरितः पितृदत्तदेश-स्तस्याख्ययैव विषयः प्रथितोऽस्त्यन्तिः // 44 // व्याख्या-तेषु-शतपुत्रेषु / एको--ऽन्यतमः, प्रतापस्य कोशदण्डजतेजसः भवनमास्पदं प्रतापभवनं--प्रतापवानित्यर्थः / पवित्रं चरितं यस्य स पवित्रचरित:-शीलवान् / पित्रा जनकेन दत्तः देशः राज्यं यस्मै स पितृदत्तदेशः, श्रीमान्-लक्ष्मीसम्पन्नः। अवन्तिः इति-विश्रुतं प्रसिद्धं नामधेयं यस्य सः विश्रतनामधेयः-"नामधेयं च नामे"त्यमरः / पुत्रः समजायत-प्रथमतीर्थकरस्येति शेषः / तस्य..अवन्तेः /