SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ [ 154 ] दुरिसंवरविरोधिमदप्रचार-निर्वासने प्रथितविक्रमशक्तिबाढम् / निश्शेषवाञ्छितविधाननिरस्तचिन्ता-रत्नबुधाः कथमिदं न तपो विदध्वम् // 40 ___ व्याख्या-बुधाः - धीमन्तः / दुरसंवरविरोधिमदप्रचारनिर्वासने-दुर्वारः असुकरप्रतिरोधः यः संवरस्य कर्मनिर्जराहेतोराश्रवनिरोधलक्षणस्य विरोधी अवरोधकः यः मदस्य अहंभावस्य प्रचारः प्रवृत्तिः तस्य निर्वासने दूरीकरणे, यद्वा दुर्वारो यस्संवरविरोधी कामः तस्य यो मदप्रचारः मदप्रवृत्तिस्तस्य निर्नाशने, दुर्वारसंबरविरोधीति पाठे तु दुर्वारो यस्संबरविरोधी कामदेवः “संबरारिर्मनसिजः, कुसुमेषुः" इत्यमरः / तस्य मदप्रचारः तज्जन्यमदोन्मत्तता तन्निर्वासने निर्मूलोच्छेदे। तथा प्रथितविक्रमशक्तिबाढम्-प्रथिता प्रसिद्धा विकमस्य पराक्रमस्य शक्तिः शौण्डियं तथा कृत्वा बाढ़मतिशयितम् / निश्शेषवाञ्छितविधाननिरस्तचिन्तारत्नं- तथा निश्शेषाणि सकलानि यानि वाञ्छितान्यभिलषितानि तेषां विधाने करणे (विधानेन सम्पादनेन वा) निरस्तमधरीकृतं चिन्तारत्नं चिन्तामणिरत्नं येन तत्तादृशम् / इदं-प्रस्तुतं / तपः कथं-कुतो हेतोने विदध्वम्-कुरुध्वम् ? मदनिवारकत्वात् सकलेष्टसम्पाकदत्वाचावश्यं कुरुध्वमित्यर्थः // 4 // अथ भावनामाहात्म्यमाह-संसारसागरेति संसारसागरनिपातुकजन्तुजात-पोतायितां प्रशमशर्मनिधानभूताम् / वलगत्कषायकरिसंहतिसिंहजायां, तां भावनां भजत किं न बुधाः स्वतन्त्राम् // 41 व्याख्या-बुधाः !-सुधियः ! संसारसागरनिपातुकजन्तुजातपोतायिताम्-संसार एव सागरः समुद्रः तत्र निपातुकाः निपतनशीलाः मज्जन्तः उन्मजन्तः, पुनः पुनरुत्पद्यमानाः म्रियमानाः इत्यर्थः, ये जन्तुजाताः प्राणिसमूहाः तेषां कृते पोतायितां पोतः महानौका तद्वद्वादाचरितां, तेषां संसारसमुद्रात् पारयित्रीम्। प्रशमशर्मनिधानभृतां-प्रशमः शान्तिरततो यत् शर्म सुखम् तस्य निधानभूतां खनिस्वरूपाम् / वल्गत्कषायकरिसंहतिसिंहजायांवल्गन्तः स्फूर्जन्तः कषायाः क्रोधादय एव करिणः गजाः तेषां संहतिः समूहः तस्या कृते तन्नाशे इति शेषः / सिंहजाया सिंहभार्या तत्स्वरूपाम्, कषायनाशिकाम् / स्वतन्त्रां-स्वाधीनाम् / तां-प्रसिद्धां / भावनां-निर्मलचित्तवृत्तिविशेषां / किं न भजत १-कुतो न सेवध्वम्, अपि त्ववश्यं सेवध्वम्, संसारोच्छेदकत्वाव, प्रशमप्रदत्वात, कषायनाशकत्वाञ्चेत्यर्थः / / 4 / / दानादिचतुर्भेदान् प्रदर्य सदृष्टान्तं तद्रपधर्मस्य फलमाह-धर्ममिति
SR No.004312
Book TitleShantinath Mahakavyam Part 01
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1961
Total Pages282
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy