________________ तत्-दानम् / आचरतां-कुर्वतां / नराणां-जनानां। यद्-यस्मात् / सा-दानप्राप्ता / इन्दिरा-लक्ष्मीरपि, खलु-निश्चयेन / मन्दिरं--गृहं / कदाचनाऽपि नैव त्यजति-दानप्रभावात् लक्ष्मीः स्थिरा भवति, अन्यथा तु चञ्चला सा परित्यज्य गच्छतीति स्थिरलक्ष्मीप्राप्तिः स्वहितमिति भावः // 37 // सम्प्रति शीलमाहात्म्यमाह-शीलमितिशीलं कलङ्कपरिवर्जितमेव येन, संसाधितं किमपि तस्य न दुर्लभं स्यात् / यस्माद् दुरन्तदुरितक्षयहेतुकत्व-मेतद्विहाय वहतीह न किञ्चिदेव // 38 // व्याख्या--येन-पुरुषेण / कलङ्कपरिवर्जितं-कलंकेन दोषेण परिवर्जितम् रहितं / निर्दुष्टमित्यर्थः / शीलं-ब्रह्मचर्य / संसाधितम्-परिपालितं / तस्य-जनस्य / किमपि-भुक्तिमुक्तथादि। दुर्लभम्-अलभ्यं / न स्यात्-ननु शीलेन कुतो मुक्त्यादि / तत्राह / यस्माद्धेतोः। इह-संसारे / एतत्-शीलं। विहाय-विना / दुरन्तदुरितक्षयहेतुकत्व-दुरन्तं दुरपोहं दुष्परिणामं यद् दुरितं पापं तस्य क्षयस्य नाशस्य हेतुकत्वं कारणत्वं / किञ्चिदेव न-किमप्यन्यन्न / वहति-धारयति, शीलेन दुरितनाशस्ततश्च मुक्तिरिति भावः // 38 // अथ तपोमाहात्म्यमाह-दीपं निवेश्येति दीपं निवेश्य निजपाणितले यथैकः, पातालमाविशति सिद्धरसाधिगत्यै / सन्तोषमाशयशयालुमिमं विधाय, धन्यस्तपस्यति तथा विधुतव्यपेक्षः // 39 // ___ व्याख्या-यथा एकः-कश्चिन्मान्त्रिकः / सिद्धरसाधिगत्य-सिद्धस्य शक्तिशालिनः रसस्यामृतरसस्य अधिगत्यै प्राप्त्यै / निजपाणितले-स्वकरतले / दीपं-मन्त्रप्रयुक्तं दीपकं। निवेश्य-विधाय। पातालंरसातलम् 'अधोभुवनं पातालं बलिसा रसातलम्' इत्यमरः / आविशति-प्रविशति / तथा धन्यः-स्तुत्यः जनः / इमं प्रसिद्धम् / सन्तोषं-तुष्टिम् / आशये-अभिप्राये / 'अभिप्रायश्छन्द आशयः' इत्यमरः / शयालुस्थितं, तद्गतं / विधाय-कृत्वा, अत एव विधुता दूरीकृता विशिष्टा अपेक्षा आकाङ्क्षा येन स विधुतव्यपेक्षःनिरीहः सन् / तपस्यति-तपः करोति / यथा पातालप्रवेशेन अमृतरसाऽवगतिः मण्याद्यवगतिर्वा तथा तपसा शश्वत्सुखाधिगम इति भावः / अत्र श्लेषाऽनुप्राणितोपमा // 39 / / - तपसः फलान्तरमप्याह-दुर्वारसंवरेति--