________________ [ 152 ] अथ धर्मस्य देवत्वप्राप्त्यादिफलमलौकिकमपीत्याह-वृन्दारकत्वमिति -- वृन्दारकत्वमधिगच्छति जन्तुरेष, वृन्दारकाधिपतितामपि पुण्ययोगात् / लोकान्तिकामरविभामहमिन्द्रतां च, सर्वार्थसिद्धिसुखमत्र परत्र चापि // 35 // व्याख्या-एष--जन्तुः। पुण्ययोगात्-पुण्यप्रभावात् / वृन्दारकत्वम्--देवत्वम्। वृन्दारकाधिपतिताम्--देवेशत्वमपि-लोकान्तिका ये अमराः तेषां विभा प्रभां लोकान्तिकामरविभाम्, अहमिन्द्रताश्च-- नवप्रैवेयकदेवत्वमनुत्तरवासिदेवत्वञ्च, तत्रस्थदेवानामहमिन्द्रत्वात् / अत्र-इहलोके / परत्र-परलोकेऽपि / सर्वार्थसिद्धिसुखम्-सर्वार्थस्य सिद्धिम् प्राप्तिं तज्जन्यं सुखश्च सर्वार्थसिद्धविमानसुखं सिद्धिसुखश्च / अधिगच्छति-प्राप्नोति, अकल्प्यमहिमा हि धर्म इति भावः // 35 // _सम्प्रति धर्मप्रकारमाह-दानमितिदानं सुपात्रविषये प्रतिपादनीयं, शीलं विशिष्य विशदं परिपालनीयम् / तप्यं तपश्च शुचिभावनया समेतं, धर्म चतुर्विधमुदाहृतवाञ्जिनेशः // 36 // व्याख्या -दान-विशुद्धं / सुपात्रविषये-सुसाध्वादौ, शुचिभावनया ऐहिक पारलौकिकाऽऽशंशादिरहितया विशुद्धमनोवृत्त्या / समेतं-समन्वितम्, अस्य सर्वत्रान्वयः / प्रतिपादनीयं-दातव्यम् / विशिष्य-मनोयोगादित्रयविशुद्धया / विशदं-निर्मलं। शीलम्, परिपालनीयम्-रक्षणीयम् / तपश्च-बाह्याभ्यन्तर द्वादशविधं शुचिभावनया समेतं / तप्यम्-समाचरणीयम्, एतदेव दानशीलतपोभावनाभेदात्मकं। चतुर्विधं धर्म जिनेशः उदाहृतवान्–जगाद // 36 // सम्प्रति पृथक् दानादेर्माहात्म्यमाह-सिद्धेरितिसिद्धर्वशीकरणकर्मणि सन्निदान, जानन्तु ऋद्धिमहिताः स्वहिताय दानम्। यन्मन्दिरं त्यजति नैव कदाचनाऽपि, सापीन्दिरा खलु तदाचरतां नराणाम् // 37 व्याख्या-ऋद्धथा प्रभूतसम्पत्त्या महिताः महत्त्वं गताः ऋद्धिमहिता:-जनाः दरिद्रस्य दानाऽशक्तेविशिष्येदमुपात्तमिति भावः। स्वहिताय-स्वेष्टसिद्ध्यै / सिद्धः--अणिमाद्यष्टविधसिद्धेः मुक्तेर्वा, वशीकरणकर्मणि-वशीकरणस्य स्वायत्तीकारस्य कर्मण्यनुष्ठाने / सिद्धिप्राप्तावित्यर्थः। सचिदानं-सव अमोघं निदानं कारणम् 'निदानं त्वादिकारणमित्यर्थः / दानं जानन्तु-आढयानां दानमेव सिद्धिनिदानमिति भावः /