________________ [ 151 ] व्याख्या-इदं भाग्यं सौभाग्यश्च धर्मात्-पुण्यात् / उल्लसति पुष्पश्च मधुरं फलंच रसालशालात्-- रसालस्याम्रस्य शालाद् वृक्षादिव / यद् धुरि--प्रथमं पुष्पोद्गमे / मदाऽलिममाश्रयत्वात् अलीना--भ्रमराणामाश्रयत्वात् भ्रमश्रितत्वात् / श्रयते-श्रतिविषयो भवति। यच्च परिणती-फलपरिपाके। सारस्यत:-- सद्रसभावात् / उपगीयते-स्तूयते, एवं धर्मात्प्रथमं भाग्यं ततो धनधान्यादिसमृद्धयः अलिवद्याचकादिसमाश्रयत्वाद, यद्वा सतां सत्पुरुषाणामालिभिः पंक्तिभिस्समाश्रयत्वात् सेवितत्वात्, पश्वाञ्च सौभाग्यवान् धर्मपरिपाके सति जनैः स्तूयते / एवश्चात्र श्लेषरूपकोपमानां सङ्करः // 32 // अथ धर्मस्य राजत्वाद्यपि फलमित्याह-राजेतिराजा भवत्यपि भवत्यपि चक्रवर्ती, प्रत्यर्धचक्रधर एव तथार्द्धचक्री / सीरायुधोजगति तीर्थकरोऽपि जन्तु-स्तकिं न सम्भवति यत्किल चात्रधर्मात्॥३३ ___ व्याख्या-अत्र जगति--संसारे। जन्तु:-शरीरो'जन्तुज-युशरीरिणः,' इत्यमरः / धर्मात् पुण्यप्रसादाद / राजा-नरेन्द्रः / आँप भवति, चक्रवर्ती सम्राट् षट्खण्डभर्ता। आप-तथा / प्रत्यर्द्धचक्रधरः-- प्रतिवासुदेवः / तथा-अर्धचक्रो-त्रिखण्डभर्ती वासुदेवः / एव भवति-तथा सीरमायुधं यस्य स सीरायुधःहलायुधः बलदेवः। तीर्थकरः अपि-भवतीत्यनुषन्यते / तत्किं यत धर्मात न सम्भवति किल ?--अपि तु सर्वमेव धर्माद्भवति इत्यर्थः धर्मः कामधेनुरिति भावः // 33 // आयुःप्राप्त्याद्यपि धर्मादित्याह-आयुरिति आयुः प्रवर्द्धयति पुण्यमहो नराणां, बीजांकुरं सलिलवजलभृद्विमुक्तम् / उद्गत्वराणि विविधानि विसृत्वराणि, शस्यानि साधयति कर्मफलानि यच्च // 34 व्याख्या-पुण्यं-पूर्वभवाराधितदयादिधर्मः। नराणां-जनानाम् / आयुः प्रवर्द्धयनि. अहोइत्याश्चर्ये / बीजांकुरं-प्ररोहम, जलं बिभर्तीति जलभृन्मेघस्तम्माद्विमुक्तं वृष्टं जलभृद्विमुक्तं, सलिलवत्सलिलमिव, सलिलं यथा अङ्करं वर्धयति तथेत्यर्थः, अत्र सलिलशब्दस्य जलभृद्विमुक्तपदसापेक्षत्वात् असामर्थ्येन कथं तद्धितवृत्तिरिति चिन्तनीयम् / असामर्थेऽपि देवदत्तस्य गुरुकुलमित्यादिवद्गमकत्वात् स इत्येके / अपरे तु प्रमाद एव, नित्यसापेक्षत्वाऽभ.वाद गमकत्वस्य असम्भवात् बीजाङ्कुरवृद्धौ सलिलमात्रापेक्षणा दित्याहुः / मलिलवज्जलभृद्विमुक्तम् - इति समस्ते तु न कश्चनापि दोषः, सजलजलधरविमुक्तम, जलमितियावत, यथातथानुसन्धानमापाद्यम् / यच्च--पुण्यश्च / उद्गत्वराणि--वर्धिष्णूनि अभ्युदयोन्मुखानि च / विसृत्वराणिप्रसरणशीलानि, व्याप्नुवानानि च / विविधानि--नानाविधानि। शस्यानि कर्मफलानि साधयात-करोति सर्वमेवतत्पुण्यादेव भवतीत्यतो धर्म एव सर्वस्य कारणमिति भावः // 34 //