________________ [150 ] यद्बुद्धिः येषां बुद्धिः। धर्मविधौ-धर्मक्रियायाम् / उल्लसति-अभिनिविशते / धर्मादेव कामः सिद्धयतीति भावः / यदुक्तं "धर्मादर्थश्च कामश्च"इति // 29 // धर्मफलं सुकुलजन्मात्मकं वर्णयति-धर्मादिति धर्मात् कुले महति जन्म जगत्प्रसिद्धे, सम्पद्यते विभवशालिनि शीलशाले। स्वप्नेऽपि मान्त्रिककुलस्थितिवन्न दोषै-रस्पर्शि यन्निजविनाशमवेक्षमाणैः // 30 व्याख्या-यत्-यवकुलम् / स्वप्नेऽपि-दर्शनेऽपि / निजविनाशम्-आत्मविध्वंसम् / अवेक्षमाणःपश्यद्भिः / दोषैः-दूषणैः। मान्त्रिकुलस्थितिवत्-मन्त्रसिद्धात्मान्वयमर्यादावन। न अस्पर्शि-स्पृष्टं न, तस्मिन् / जगत्प्रसिद्धे-विश्वविश्रुते। विभवशालिनि-सम्पत्समन्विते। शीलशाले-सवृत्तसुन्दरे / महति कुले-विशाले वंशे / जन्म-जनिः। धर्मात्-सुकृतनः। सम्पद्यते-जायते / उपमा // 30 // धर्माद कामप्राप्तिमुक्त्वा अधुना अर्थप्राप्तिमाह-लक्ष्मीः इतिलक्ष्मी: समुद्भवति पुण्यत एव पुंसां, भागीरथीव तुहिनाचलशङ्गमूलात्।। या वासुदेवपदमस्पृशदात्मनैव, या चोत्तमाङ्गमभजत्परमेश्वरस्य // 31 // ___व्याख्या-पुंमां-जनानां। पुण्यत:--धर्मादेव--"स्याद्धर्ममस्त्रियां पुण्यश्रेयसी, इत्यमरः / नान्यतः / लक्ष्मी:-सम्पत्तिः / समुद्भवति--जायते / तुहिनाचलशृङ्गमूलात-तुहिनाचलः हिमालयः तस्य शृङ्ग शिखरः तन्मूलात् / भागीरथी-गङ्गेव। या- भागीरथी। आत्मना-स्वतः / एव वासुदेवपदं-वासुदेवस्य विष्णोः पदं चरणम् / अस्पृशत-तज्जन्यत्वादिति भावः / तथा या च परमेश्वरस्य--शिवस्य / उत्तमाङ्गम्-मूर्धानम् 'उत्तमाङ्गं शिरः शीर्ष मूर्धा ना,' इत्यमरः / अभजत्-आरुहद, आकाशात्पतन्ती गङ्गा शिवेन निजमस्तके धृतेति पौराणिकाः / एवञ्च यथा भगीरथपुण्यतः हिमालयाद्गङ्गा उद्भूता तथा पुण्यतः लक्ष्मीरुद्भवतीत्यर्थः / नहि धर्मेण किश्चिदसाध्यमिति भावः // 31 // अथ धर्मस्य फलान्तरमप्याह - सौभाग्यमितिसौभाग्यमुल्लसति भाग्यमिदं च धर्मात्, पुष्पं फलं च मधुरञ्च रसालशालात्। यच्छ यते धुरि सदालिसमाश्रयत्वात्, सारस्यतः परिणतावुपगीयते यत् // 32