________________ [ 149 ] - अथ स्वकीयतत्रत्यप्रवृत्तिमाह-दृष्ट्वेतिदृष्ट्वा ततोऽमितयशोजिनराजमेतं, गीर्वाणनायकनिषेव्यपदारविन्दम् / भक्त्या प्रणम्य समुपाविशमन्तिकस्थो, योग्यं प्रदेशमुपगम्य तदेकतानः // 27 // व्याख्या-ततः-तदनन्तरम् / गीर्वाणनायकनिषेव्यपदारविन्दम्-गीर्वाणानां देवानां नायकाः अग्रेसराः देवेन्द्रास्तैः निषेव्यौ पदौ चरणौ अरविन्दे इव यस्य तं तादृशम् / एतं-प्रस्तुतम्। अमितयशोजिनराजम्--अमितयशाश्चासौ जिनराजश्च तं / दृष्ट्वा, भक्त्या प्रणम्य योग्यम्-उचितम्, प्रदेशं स्थानम् / उपगम्य-प्राप्य / अन्तिकस्थ:-जिनराजसमीपस्थः सन्। तदेकतान:-तदेकाप्रध्यानः / समुपाविशम् उपविष्टवान् // 27 // सम्प्रति तीर्थकरस्य देशनां वर्णयति-तां देशनामितितां देशनां व्यधित तीर्थकरस्तदानीं, दैतेयनायकनिकायसभाजितांहिः। यस्यां श्रुतेविषयतामुपलम्भितायां, भव्याः समीहितमशेषमवाप्नुवन्ति // 28 // व्याख्या-दैतेयनायकनिकायसभाजितांह्निः-दैतेयाः असुराः "असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः', इत्यमरः, तेषां नायकाः नेतारः असुरेन्द्रा इत्यर्थः, तेषां निकायेन समूहन सभाजितौ सेव्यमानावंही यस्य स तादृशः / तीर्थकर:-श्री अमितयशाः / तदानीं-तस्मिन् काले। तां-देशनाम् उपदेशम् / व्यधित-- अकरोत् / यस्यां-देशनायां / श्रुतेः--श्रवणेन्द्रियस्य / विषयता-गोचरताम् / उपलम्भितायां प्राप्तायां, श्रुतायां, सत्यामित्यर्थः / भव्या:-प्राणिनः / अशेष-सकलं / समीहितम्-अभीष्टम् / अवाप्नुवन्ति–प्राप्नुवन्ति // 28 // . अथ देशनाप्रकारमेवाह-चिन्तामणिरितिचिन्तामणिः करतलं किल सन्निविष्टस्तेषां स कामकलशः खलु सन्निविष्टः / सा कामधेनुरपि तद्भवनं प्रविष्टा, यबुद्धिरुलसति धर्मविधौ प्रकृष्टा // 29 // ___ व्याख्या-तेषां-प्राणिनां। करतलं-हस्ततलं। चिन्तामणिः-सर्वेष्टसम्पादको मणिविशेषः / सनिविष्टः-स्थित / किलेति-निश्चये। स-प्रसिद्धः, कामपूरकः कलशः घटः कामकलशः सन्निविष्टः खलु तद्भवनं-तेषां भवनं गृहम् प्राप्तः। सा-प्रसिद्धा। कामधेनुः-सुरगवी। प्रकृष्टा-उत्तमा। प्रविष्टा