________________ [ 148 ] अन्येन / पराजितानाम्-अभिमूतानां / महताम्-उत्तमानाम् / उष्णकरप्रकाशे-उष्णकरस्य सूर्यप्रस्य प्रकाशे आलोके। स्व-निजं / न प्रकाशयितुं प्रकटयितुं / युक्तम्-उचितम्, लजायास्तथैव रक्षणाव, रात्रौ तु लोकावलोकन भयाभावेन प्रकटनेऽपि न क्षतिरिति भावः। अत्र चन्द्रस्य दिवा अप्रकटने लज्जायाः असम्बन्वेऽपि सम्बन्धोक्तेरतिशयोक्तिः, तस्य च विशेषस्य महतां सूर्यप्रकाशेऽप्रकटनौचित्येन सामान्येन समर्थनादर्थान्तरन्यास इति द्वयोरङ्गाङ्गिभावः सङ्करः // 24 // ___ सम्प्रति स्वपरिचयमाह-सूनुमिति सूनुं तदीयमवधारयतं युवां मा - मध्यक्षलक्ष्यकृतलक्षणलक्ष्यमूर्तिम् / व्युत्क्रान्तशैशवभरं जनकादवाप्त-संसाधितप्रवरविद्यमनिन्द्यवित्तम् // 25 // ___ व्याख्या-युवा-द्वौ कुमारौ / अध्यक्षलक्ष्यकृतलक्षणलक्ष्यमृतिम्-अध्यक्षस्य प्रत्यक्षज्ञानस्य यलक्ष्य विषयः तत्कृतेन लक्षणेन लक्ष्या ग्राह्या मूर्तिर्यस्य तं तादृशं, प्रत्यक्षदृश्यमानम् / व्युत्क्रान्तशैशवमरम्-व्यकान्तः व्यतीतः शैशवस्य बाल्यस्य भरोऽतिशयः यस्मात्तं तादृशं, तरुणं / जनकात्-पितुः सकाशात् / . अवाप्तसंसाधितप्रवरविद्यम्-अवाप्ता अधिगता संसाधिता कार्यक्षमीकृता प्रवरा श्रेष्ठा विद्या येन तं तादृशम्, अधीतविद्यम् / तथा अनिन्द्यवृत्तम्-अनिद्या स्तुत्या वृत्तिराचरणं यस्य तं तादृशं सदाचारिणं / अनिन्धवित्त-मिति पाठे तु सत्सम्पत्तियुक्तम् / मां, तदीयं-कुण्डलीनामनृपस्य / सूनुं-पुत्रम् / अवधारयतंवित्तम् // 25 // अथ सम्प्रति स्वस्य कथाङ्गतया जिनेशसमीपगमनमाह-अन्येद्यरिति अन्येधुरम्बरविहारविनोदवृत्त्या, श्रीपुण्डरीकिणिपुरीमगमं महेच्छः। तीर्थङ्करामितयशप्रणिनंसयैव, कः श्रेयसे प्रयतते हि न शुद्धबुद्धिः // 26 // व्याख्या-अन्येयुः--एकदा / महती इच्छा यस्य स महेच्छ: महाभिलाषः सन् अहम् / तीर्थङ्करामितयशःप्रणिनंसया-तीर्थङ्करो योऽमितयशाः तस्य प्रणिनंसया प्रणतुमिच्छया। एव, अम्बरविहारविनोदवृश्या-अम्बरे आकाशे विहारे सञ्चरणे यो विनोदः मनोऽनुरञ्जनं तद्रूपया वृत्त्या क्रियया, अम्बरविहाररूपं विनोदं कुर्वन् / श्रीपुण्डरीकिणि-नाम्नीं। पुरी-नगरीम् / अगमम्--अगाम् / तत्र हेतुमाहहीति-यतः / करशुद्धबुद्धिः-निर्मलधीः / श्रेयसे-कल्याणाय / न प्रयतते-प्रयत्नं करोति // 26 //