________________ [ 147 ] व्याख्या यस्य-राज्ञः / काले-शासनसमयरूपे, अथ च काले वर्षौ / सूरकरापिधाननिर्माणजाग्रदये-सूराः लक्षणया प्रतापिनो राजानः तेषां कराः लक्षणया प्रतापाः 'अथ च सूर्यकिरणाः, तेषा यदपिधानमाच्छादनं तस्य निर्माणं करणं तत्र जाग्रत् सचेष्टः उदयः उन्नतिर्यस्य स तस्मिन् / धाराधरेमेघे, खड्ने च, "धाराधरो जलधर" / इति 'धाराधरः खङ्ग' इति च कोशः। बत-निश्चयेन / स्फुरतिविलसति सति / समग्रराजहंसाः-समग्राश्चाखिलाश्च ते राजान एव हंसास्ते, अथ च हंसानां राजानः राजहंसाः, राजसु हंसा इवेति राजहंसाः / सश्रीकं-शोभमानम् / अथ च सम्पत्तिसहितम् / अम्बरमवस्त्रमपि अथ चाकाशम् / अपास्य-त्यक्त्वा / तूर्णम्-शीघ्रमेव / प्रपलाप्य-प्रलायित्वा। विदेश-देशान्तरम् / अगमन-यथा वर्षौं हंसाः मानसं सरो गच्छन्ति, तथा तत्समये शत्रुराजानः विदेशमगमन्नित्यर्थः / रूपकालङ्कारः // 22 // अथ तस्य स्त्रियं वर्णयति-तस्याजनीतितस्याजनि प्रियतमाऽजितमेनिकेति, सेना मनोभवनृपस्य जगजिगीषोः। लावण्यभूमिरपि या मधुराधरत्वा-दन्यां प्रियां रसवतीं नृपतिय॑षेधत् // 23 // व्याख्या-तस्य-राज्ञः / जगजिगीषोः-जगज्जेतुमिच्छो मनोभवनृपस्य-मनोवः काम एव नृपः तस्य / सेना-वाहिनीरूपा, तद्द्वारेण जगतो वशीकरणादिति भावः। अजितसेना-इति नाम्नी / प्रियतमा-भार्या / अजनि-अभूव / या लावण्यभूमिरांप-लावण्यस्य सौन्दर्यस्य भूमिः आरपदपि, तस्याः / मधुराधरत्वात्-मधुरः अधरः अधरोष्ठः यस्याः तद्भावस्तत्त्वान / नृपति:-राजा। रसवतीम्-अनुरागवतीमपि। अन्यां प्रियां-भायां / न्यषेधत-परां भार्या नाकरोदित्यर्थः / / 2 / / __अथ तस्याः शीलं वर्णयति शीलमितिशीलं यदीयममलं समवेक्ष्य शङ्के, नेन्दुर्दिवा प्रकटतां भजते त्रपावान् / युक्तं परेण महतां हि पराजितानां, न स्वं प्रक शयितुमुष्णकरप्रकाशे // 24 // - व्याख्या-यदीयम्-अजितसेनिकासम्बन्धि / अमलं-निष्कलङ्क / शीलं-स्वभावं / समवेक्ष्यविलोक्य / त्रपावान् सलजः / इन्दुः-चन्द्रः, तस्य सकलङ्कृत्वादिति भावः / दिवा-दिने / प्रकटतांनेत्रगोचरतां। न भजते-किन्तु तिरोहितस्तिष्ठति, इति / शङ्के-ऽहम्, तत्र हेतुमाह। हि-यतः / परेण