________________ [ 146 / अथ तत्रत्यराजानं वर्णयति-लक्ष्मीविलासेति-- लक्ष्मीविलासवसतिः कमनीयकान्ति-स्तत्राभवत् क्षितिपतिःक्षतशत्रुजातिः। यः कुण्डलीतिनिजनामनिवेशनेन, वर्णावलीमपि विभूषयति स्म धीरः // 20 // ___ व्याख्या-तत्र-आदित्याभनाम्नि नगरे, लक्ष्म्याः विलासस्य क्रीडायाः वसतिरास्पदम् लक्ष्मीविलासवसतिः-लक्ष्मीवान् / कमनीया मनोहरा कान्तिर्यस्य स कमनीयकान्तिः-सच्छविः / क्षतशत्रुजाति:मता नाशिता शत्रूणां जातिः समूहः येन स तादृशः, विनिहतारिवर्गः। क्षितिपति:-राजा अभवत् / य: धीर:-धैर्यवान्, राजा / कुण्डलीतिनिजनामनिवेशनेन–करणेन / वर्णावलीमपि-वर्णसमूहमपि / विभूषयतिस्म-“कर्णः कुण्डलिबिलेशयदन्दशूकाः” इति हैमवचनात् सार्थवाचकतया कुण्डलीतिवर्णावली न शोभते सप्रतिपक्षत्वात्तस्य, कुण्डलीति नृपनाम्ना तु शोभते तस्य राज्ञो निष्प्रतिपक्षत्वादिति भावः / कुप्डलविशिष्टार्थवाचकत्वात् शब्दोऽपि कुण्डली सम्पन्न इत्यर्थः // 20 // . अथ तस्य प्रतापं वर्णयति-यस्य प्रतापतपन इति यस्य प्रतापतपनः स तथा कथञ्चि-दुज्जम्भते स्म भुवनेषु करैरुदणैः / प्रत्यर्थिसार्थहृदयाम्बुजकोशदेशा-भासा मनागपि यथा न विकाशमापुः // 21 // व्याख्या-यस्य-राज्ञः / स-प्रसिद्धः। प्रतापतपन:-प्रताप एव तपनः सूर्यः स। भुवनेषुलोकेषु / उदग्रैः-उत्कटैंः / करैः-किरणैः। कथञ्चित्-कुतोऽपि / तथा-तेन प्रकारेण / उज्जम्भते स्मप्रकाशते स्म / यथा-येन प्रकारेण / प्रत्यर्थिसार्थहृदयाम्बुजकोशदेशाभासा:-प्रत्यर्थिनां शत्रणां सार्थः समूहः तस्य हृदयान्येव अम्बुजानां कमलानां कोशस्य कुड्मलस्य 'कोशोऽस्त्रीकुड्मले' इत्यमरः / देशाः भागाः स्थानानि तद्गता आभासाः कान्तयः / मनागपि ईषदपि / विकाश-प्रफुल्लतां / न आपुः-पापुः / तद्वैरिहृदयं तत्कृताभिभवान्न कदापि हृष्टमिति भावः // 21 // शत्रुपराभवस्य वर्णनेऽपि पुनरर्थविशेषलाभाय तद्वर्णयति-धाराधरे इतिधाराधरे स्फुरति सूरकरापिधान-निर्माणजाग्रदुदये बत यस्य काले / स श्रीकमम्बरमपास्य समग्रराज-हंसा विदेशमगमन् प्रपलाय्य तूर्णम् // 22 //