________________ [145 ] शयानाम्-प्रतापः प्रभाश्च कमला लक्ष्मीश्च विमलाशयो निर्मलान्तश्च येषां तेषाम् / सकेतनानि-पताकान्वितानि / हेमघटितानि-स्वर्णसम्पादितानि, कनकमयानीति यावत् / उन्नतानि-उच्चस्तराणि / जिनराजनिकेतनानि-अर्हन्मन्दिराणि / राजन्ति-शोभन्ते। अयं भाव', यत्र पुरेऽहंदुपासकानां जिनमन्दिराणि स्वर्णमयान्यत्युन्नतानि विराजन्ते, तेषु विधिपूर्वकमार्हता अर्चनं विशिष्टप्रकारं विदधते, तदनुभावतस्ते प्रतापिनः श्रीमन्तः सदाशयाश्च सन्तीति // 17 // अथ तत्रस्थविद्याधरान् वर्णयति-प्रज्ञप्तीतिप्रज्ञप्तिदेव्युपहृतानुपमप्रसादाः, सम्पादिताखिलमनीषितवस्तुजाताः। विद्याधराः प्रमदमेदुरचेतसस्स--द्धर्मक्रियास्वनलसा विलसन्ति यत्र // 18 // व्याख्या-यत्र-नगरे। प्रज्ञप्तिदेव्युपहृतानुपमप्रसादा:-प्रज्ञप्तिर्नाम या देवी तयोपहृतः प्रदत्तः अनुपमोऽसाधारणः प्रसादः प्रसन्नता येषां ते तादृशाः / तथा सम्पादिताखिलमनीषितवस्तुजाता:- सम्पादितानि लब्धानि कृतानि वा अखिलानि सर्वाणि मनीषितानि ईहितानि वस्तुजातानि वस्तुसमूहाः यैस्ते तादृशाः, लब्धसम्पूर्णाभिलाषाः अत एव प्रमदेन हर्षेण मेदुरमुन्नतं चेतः मनः येषां ते प्रमदमेदुरचेतसःहर्षोत्फुल्लमनसाः। सद्धर्मक्रियासु-सद्धर्मानुष्ठानेषु / अनलसा:-अप्रमत्ताः। विद्याधराः, विलसन्तिशोभन्ते // 18 // __अथ तत्रवासिनः स्वभावं वर्णयति-कृत्तमिति-- कृतं निघृष्टमुपतापमपाकरोति, संयोजितं वपुषि यजलयोगसत्कम् / श्रीखण्डमात्तसदृशान्वयमात्मनैव, यद्वासिभिर्जितमनीदृशवृत्तवृत्तः // 19 // व्याख्या-यत् श्रीखण्ड-चन्दनं / कृतं-प्रथमम् छिन्नम् ततः / जलयोगसत्कम्-जलस्य योगः सम्पर्कः तेन सत्कं सहितं / निघृष्टं-पिष्टं, तथा / वपुषि-शरीरे। संयोजितं-लेपितं, सत् / उपताप-तापम् / अपाकरोति-दुरीकरोति, तत् / श्रीखण्ड-चन्दनम् / अनीदृशवृत्तवृत्तैः-अनीदृशं विलक्षणं यद् वृत्तं व्यवहारः तेन वृत्तैः सम्पन्नैः कर्त्तनादिव्यापारविरहितैरेव / यद्वासिभि.-यत्र वसद्भिः जनैः / आत्तसदृशान्वयम्आत्तः गृहीतः सदृशः चन्दनतुल्यः अन्वयो वंशः स तापनाशकस्वभावो यथा स्यात्तथा, चन्दनसदृशकुलग्रहणपुरस्सरम् / आत्मनैव-स्वयमेव / जितं-पराजितम्, चन्दनं कृत्तादिव्यापारवत्त्वे सति तापनाशकं / अत्रत्यास्तु तादृशव्यापार विनैव तादृशकुलस्वभावेनैव तापनाशकाः, इत्यर्थः / सर्वेऽपि अत्रत्याः शान्तस्वभावाः इति भावः // 19 //