________________ [144 ____ सम्प्रति तस्य पर्वतस्य पृथुत्वमौन्नत्यं कुटांश्चाह-विस्तारमितिविस्तारमावहति विंशति योजनानि, पञ्चाधिकानि किल तद्विगुणोच्चभावम् / यो राजतः स्फटिकभूधरवद् विभाति, कूटैविभात्यभिनवैर्नवभिर्विचित्रेः // 15 // व्याख्या-यः राजतः-रजतस्यायं राजतः, रजतमयः वैताट्यपर्वतः / पञ्चाधिकानि--येषु एवम्भूतानि / विंशतियोजनानि-पञ्चविंशतियोजनानीत्यर्थः। विस्तारं-पृथुत्वं, व्यासं 'विस्तारव्यासाः' इति हैमः / तद्विगुणं-पश्चाशद्योजनानि / उच्चभावम्-उच्चैरत्वम् / आवहति-धारयति / किल-तथा / यः, स्फटिकभधरवद्-स्फटिकस्य तदाख्यरत्नविशेषस्य यः भूधरः पर्वतः / तद्वत विभाति-शोभते, कैरित्यत आहअभिनवैः- विलक्षणैः। विचित्रैः-नानावणैः / नवभिः-नवसङ्खयाकैः। कूटः-शिखरैः, 'कूटोऽस्त्री शिखरं शृङ्गम्' इत्यमरः // 15 // अथ तत्र पुरस्थितिमाह-तत्र प्रवृद्धतितत्र प्रवृद्धनयराजिविराजि नामा(म्नाss)-दित्याभमस्ति पुटभेदनमुत्तरस्याः। श्रेणेविभूषणमदूषणमेव पञ्च-पञ्चाशता वरपुरैरुपशोभितायाः // 16 // ___ व्याख्या-तत्र-वैताढ्यपर्वते। पञ्चपञ्चाशता-पञ्चपञ्चाशत्संख्यकैः। वरपुरैः-वरैः श्रेष्ठैः पुरैः नगरैः। उपशोभितायाः-शोभमानायाः / उत्तरस्याः श्रेणे:-उत्तरश्रेणेः / अदृषणं-निर्दुष्टम्, अमलमित्यर्थः / विभूषणं-मण्डनरूपम् / प्रवृद्धनयराजिविराजि-प्रवृद्धा उन्नता नयराजिः नीति सन्ततिः तया विराजि विराजमानम् / नाम्ना-अभिधानेन / अदित्याभम्, पुटभेदनं-नगरम् / अस्ति-'पूः स्त्री नगर्यो पत्तनं पुटभेदनमित्यमरः // 16 // अथ तत्रत्यचैत्यानि वर्णयति-यत्रोन्नतानीति --- यत्रोन्नतानि जिनराजनिकेतनानि, राजन्ति हेमघटितानि सकेतनानि / पूजाविधिं विदधतां जिनपुङ्गवानां, मूर्ती प्रतापकमलाविमलाशयानाम् // 17 // व्याख्या-यत्र-यस्मिन्नगरे। जिनपुङ्गवानाम्-अर्हप्रवराणाम् / मृर्ता-मूर्तिमतीम्, यथार्थामिति यावत् / पूजाविधिम्-अष्टविधादिपूजनक्रियाम् / विदधताम्-आचारताम् अत एव / प्रतापकमलाविमला