________________ [143] . अथ विद्याधरस्य प्रतिवचनमाह -एतनिशम्येतिएतनिशम्य वचनं नृपनन्दनाभ्यां, सम्भाषितं पुनरभाषत खेचरेन्द्रः / शुश्रूषुताऽस्ति यदि वां तदिदं विमुच्य, युद्धं युवांच शृणुतं विहितावधानम् // 12 // ___ व्याख्या-नृपनन्दनाभ्यां-राजपुत्राभ्यां / संभाषितं-कथितम् / एतदुक्तं वचनं, निशम्यआकर्ण्य / खेचरेद्रः-विद्याधरः / पुनः-भूयः / अमाषत-अवोचत, किमित्याह / यदि वां-युवयोः / शुश्रपता-श्रवणाभिलाषिता / अस्ति, तत्-तदा / इदं-प्रवर्त्तमानं / युद्धं विमुच्य-त्यक्त्वा / युवा-भवन्तौ च / विहितावधान-विहितं कृतमवधानं चित्तैकाम्यं यथा स्यात्तथा सावधानं / शृणुतम्-आकर्णयतम्, प्रमादे तु, अर्थान्तरसम्भावनेति भावः // 12 // अथ विद्याधरोक्तिं प्रपञ्चयति श्लोकद्वयेन-अस्तीहेति - अस्तीह जम्बुतरुविश्रुतनामधेये, द्वीपेऽन्तरीपसुभगेऽपि महाविदेहे / . . क्षेत्रे सनातनजिनेश्वरधर्मपात्रे, सीतामहासरित उत्तरमुत्तरेण // 13 // . सौराज्यराजि विजये खलु पुष्कलाव-त्याख्ये धराधरशिरोमुकुटायमानः। वैताब्य इत्यभिधया सुधयानुलिप्तः, किं श्वेतिमानमिह यो बिभराम्बभूव // 14 // याख्या-इह, जम्बुतरुविश्रतनामधेये-जम्बुतरुणा जम्बुनामवृक्षेण विश्रुतं प्रसिद्ध नामधेयं यस्य तस्मिन् / द्वीपे-जम्बुद्वीपे इत्यर्थः / अनन्तरोपसुभगेऽपि अन्तरीपैींपैरसंख्येयैर्वलयाकारैः तस्य परिवृतत्वात सुभगे मनोरमेऽपि, यद्वा अन्तरीपेषु द्वीपेष्वसंख्येयेषु मध्ये सुभगेऽपि मनोहरेऽपि / सनातनजिनेश्वरधर्मपात्रेसनातनस्य जिनेश्वरधर्मस्य पात्रे आस्पदे, तत्र तीर्थकृतां सदासत्त्वात्तद्धर्मस्यापि सदा विद्यमानत्वादिति भावः / महाविदेहे-तन्नाम्नि क्षेत्रे, उत्तरेण-उत्तरस्यां दिशि / सीतामहासरित:-सोताख्यमहानद्याः / उत्तरम्उत्तरभागे। पुष्कलावत्याख्ये-पुष्कलावती इत्याख्या यस्य तस्मिन् तादृशे। सौराज्यराजि-सौराज्येन सुशासनेन राजते यः तस्मिन् / विजये, धराधरशिरोमुकुटायमानः-धराधराः पर्वताः तेषां शिरस्सु मुकुटायमानः पर्वतश्रेष्ठ इत्यर्थः। वैताढ्य इत्यभिधया य:-पर्वतः अस्ति सः पर्वतः / इह-पुष्कलावतीविजये / सुधया-सुधालेप इत्यमरोक्तेः सुधया लेपेन चूर्णविशेषेण / अनुलिप्त:-सन्। पर्वतान्तराणां कृष्णत्वस्यैव वेतिमानम्-धावल्यं / बिभराम्बभूव-धारयामास / किम् ?-कथमन्यथा श्वेतिमा तस्येति भावः / सर्वेषांकविसमयप्रसिद्धत्वादिति भावः // 13 / / 14 / /