________________ [142] कारणत्वं दधाना', परिणामे विषमाः, अत एव / किम्पाकपाकिमफलानुकृतं-किम्पाकः विषवृक्षविशेषस्तस्य यत् पाकिम स्वयं पक्व फलं तस्यानुकृतं सादृश्यं / दधाना:-तदपि हि भक्षणमात्रे मधुरम्, परिणामे तु प्राणनाशकमेवेति विषमफलोत्पादकम्, तद्वत् / इमे-अनुमुज्यमानाः विषयाः, विदुषां-ज्ञानिनां / कथं-केन प्रकारेण / न हेया:-त्याज्याः / स्यु:-अपि त्ववश्य त्याज्या इत्यर्थः // 9 // अथ पूर्वोत्तरीत्या कृतां भूमिकामुपसंहरति- त्याज्येतित्याज्या विशिष्य च भवन्ति भवादृशाना, विज्ञानशास्त्रपरमार्थविशारदानाम् / यस्याः कृतेऽसमरसः समरस्य सौम्या-वातायते भवति सा भवतोस्तु जामिः॥१० व्याख्या-विज्ञानशास्त्रपरमार्थविशारदानां-विज्ञानरय विशिष्टज्ञा..स्य शास्त्रस्यागमादेश्च परमार्थस्य तत्त्वार्थस्य विशारदानां कोविदातां / भवादृशानां-युष्मादृशानां च। विशिष्य-विशेषेण / त्याज्या:हेयाः / भवन्ति-विषया इति प्रकारणालभ्यते, यतः भवन्तः ज्ञानिनः इति भावः / तत्रापि विशेषमाह / सौम्यौ !-भद्रौ ! कुमारौ ! ! यस्याः-नार्याः / कृते समरस्य-संपामस्य / असमरस:-असाधारण आग्रहः / आतायते-विस्तार्यते, यदर्थ युद्धथते इति भावः / सा तु-कन्या। भवतो:-द्वयोः कुमारयोः / जामिः-भगिनी भवति, 'जामिस्तु भगिनी स्वसा" इति हैमः। एवञ्च तया सम्बन्ध एवायोग्यः, ततश्च तदर्थ युद्धं जलताडनवद् व्यर्थमिति भावः // 10 // अथ सा जामिः कथमिति कुमारः जिज्ञासते-जामि कथमिति- . जामि कथं कथितवानसि नाविमांत्व, विद्याधरान्वयनमस्तलतिग्मभानो! युष्मादृशः किमविमृश्य निवेदकत्वं, सम्भाव्यते कथमपि प्रतिवद्धतापि // 11 // व्याख्या-विद्याधरान्वयनमस्तलतिग्मभानो :-विद्याधराणामन्वयः कुलमेव नभस्तलमाकाशः तत्र तिग्मभानुः सूर्य इव तत्सम्बोधने / त्वं-भवान् / इमां-कन्याम् / नौ-आवयोः / जामि-भगिनीं / कथंकेन प्रकारेण / कथितवान्-उक्तवान् / असि, युष्मादृशः-भवादृशः देवतुल्यस्य / अविमृश्य-अविचार्य / निवेदकत्वं-जापकत्वम् आवयोः, तया सह / प्रतिबद्धताऽपि-सम्बन्धिताऽपि / कथमपि-कुतोऽपि हेतोः / सम्भाव्यते किम् ?-नैव सम्भाव्यते इत्यर्थः / अत्र प्रतिपद्वतोऽपि इति पाठो युक्तः, तथा च अविमृश्याविचार्य निवेदकत्वं प्रतिपद्वतोऽपि भवतः विदुषोऽपि कथमपि कि सम्भाव्यते ? नैव सम्भाव्य ते इत्यर्थः / एवञ्च भवतां निवेदनस्य कोऽभिप्रायः, इति भावः // 11 //