________________ [141] व्याख्या-मणिमन्त्रतन्त्रैः-मणिश्च मन्त्रश्च तन्त्रश्च तैः / अयुतम्-न युतमयुतमसंसक्तं, अप्रतिबद्धं, मण्यादीनां विषप्रभावप्रतिबन्धकत्वात् तद्रहितम्, अत एव / स्वतन्त्र-शक्तिमत् / कालकूट-विषम् / आस्वा दितं-भक्षितं / जीवितम् आशु हरति-झटिति नाशयति, तद्धि जीवितमात्रनाशकमिति भावः / तथा हव्यनिपातवृद्धः-हव्यस्य देवेभ्यो दातव्यस्यान्नस्य निपातेन प्रक्षेपेण वृद्धः उपचितः “हव्यं सुरेभ्यो दातव्यम्"इतिहैमः अत एव / ज्वालाकलापजटिलज्वलनोऽपि-ज्वालानां शिखानां कलापः समूहः 'कलापो भूषणे बहें तूणीरे संहताव'इत्यमरकोषः / तेन जटिल: गहनः ज्वलनः अग्निरपि / स्पृष्टः, देह-शरीरं / परं-केवलं / दहतिभस्मीकरोति // अथ विशेषान्तरमाह-कोपप्रवर्तीतिकोपप्रवर्तिसमवर्तिकृपाणिकाभाः, सर्पा दशन्ति सुतरां विहितापराधम् / सेव्याः कथं नु विषयास्तु विवेकभाजां, यस्मादिमे तदतिरिक्तविकारकाराः॥८॥ ___व्याख्या-कोपप्रवर्तिसमवर्तिकृपाणिकामा:-कोपेन क्रोधेन प्रवर्ती प्रवृत्तिमान् यः समवर्ती यमः "धर्मराजः, पितृपतिः समवर्ती,” इत्यमरः, तस्य कृपाणिका छुरी: "क्षुरी छुरी कृपाणिका" इति हैमः तद्वदाभान्तीति ते तादृशाः यमकृपाणाकाराः इत्यर्थः। सर्पाः-भुजङ्गाः / सुतरां-नितरां / विहितापराधंविहितः कृतः अपराधः पादेन स्पर्शादिः येन स तं तादृशं। दशन्ति तु-पुनः। विषयाः-भोगाः / विवेकभाजां-ज्ञानिनां / कथं नु-केन प्रकारेण। सेव्याः यस्माद्-हेतोः। इमे-विषयाः / तदतिरिक्तविकारकारा:-तेभ्यः विषादिभ्यः अतिरिक्त: अधिकतरः यः विकारः भवभ्रमणादि तं कुर्वतीति तादृशाः। यदि हि जीविताचेकैकनाशकत्वाद्विषादयोऽसेव्याः तदा तदधिकविकारकारित्वाव सुतरां विषयाः न सेवनीया विवेकिनामित्यर्थः // 8 // विषयत्यागे कारणान्तरमप्याह-आपातेतिआपातमात्रमधुरा परिणामवृत्त्या, वैरस्य कारणमनन्तरमाश्रयन्तः / किंपाकपाकिमफलानुकृतं दधाना, हेया कथं न विषया विदुषामिमे स्युः॥९॥ व्याख्या-आपातमात्रमधुरा:-आपातमात्रेण सद्यः सम्पर्कमात्रेण मधुराः सुखकराः, न तु चिरम्, तथा परिणामवृत्या-फलपरिपाकदृष्ट्या। वैरस्य-विद्वेषस्य / अनन्तरम्-अव्यवहितं साक्षादित्यर्थः / कारणं-भावप्रधाननिर्देषात् कारणत्वम् / आश्रयन्तः-दधानाः, यद्वा अनन्तरं वैरस्य वैषम्यस्य कारणं