________________ [140] येन तत्तादृशम् / विमान-व्योमयानं 'व्योमयानं विमानोऽस्त्री'त्यमरः / आगच्छद्-अवातरत् / अवलोकयतः स्म-पश्यतः स्म, तौ राजपुत्रौ // 4 // अथ विमानमेव विशिनष्टि-विद्योतमानेतिविद्योतमानमणिसञ्चयसनिबद्ध-सोपानराजिरमणीयमवेक्षणीयम् / उद्दण्डहेममयदण्डलसत्यताकं, शब्दायमानमधुरध्वनिकिङ्किणीकम् // 5 // व्याख्या-विद्योतमानमणिसञ्चयसन्निबद्धसोपानराजिरमणीयं-विद्योतमानो यो मणिसञ्चयः मणिराशिः तेन सन्निबद्धा निर्मिता या सोपानानामारोहणानां राजिः श्रेणिः ‘आरोहणं स्यात सोपानमि'त्यमरः, तया रमणीयम् मनोहरम्, अत एव / अवेक्षणीयम्-दर्शनीयम्, तथा। उद्दण्डहेममयदण्डलसत्पताकम उद्दण्डा:-उन्नता ये हेममयाः स्वर्णमयाः दण्डाः तत्र लसन्त्यः शोभमानाः पताकाः वैजयन्त्यः, यस्मिन् तत्तादृशम्, 'पताका वैजयन्ती केतनमित्यमरः तथा / शब्दायमानमधुरध्वनिकिङ्किणीक-शब्दायमानाः मधुरः श्रुतिमनोहरः ध्वनिर्यासां तास्तादृश्यः किङ्किण्यः क्षुद्रघण्टिकाः यस्मिन् तत्तादृशम्, विमानमवलोकयतः स्मेति पूर्वेणान्वयः // 5 // अथ तदनन्तरं वृत्तमाह-भो भोः ! इति - भो भो ! कुमारतिलकौ ! समरं विहाय, वाक्यं मदीयमवधारयतां भवन्तौ। इत्युद्धतस्वरमुवाच विमानवी, विद्याधरः समभिसृत्य रयेण चैकः // 6 // . व्याख्या-विमानवर्ती-विमानस्थः / एकः विद्याधरः रयेण-वेगेन / समभिसृत्य-समागत्य / चेति-अवलोकनसमभिसरणयोरेककालत्वसूचनार्थः / भो भोः ! कुमारतिलको !-कुमारश्रेष्ठौ ! भवन्तौ-युवाम् द्वौ अपि / समरं-युद्धं / विहाय-त्यक्त्वा / मदीयं-मदुक्तं / वाक्यं-वचनम्। अवधारयतां-शृणुतामित्थम् / उद्धतस्वरम्-उच्चस्वरं यथा स्यात्तथा / उवाच-जगाद // 6 // अथ विद्याधरोक्तिं प्रपञ्चयति-आस्वादितमितिआस्वादितं हरति जीवितमाशु काल-कूटं स्वतन्त्रमयुतं मणिमन्त्रतन्त्रैः। ज्वालाकलापजटिलज्वलनोऽपि देह, स्पृष्टः परं दहति हव्यनिपातवृद्धः // 7 //