________________ [139 ] श्रीषेणभूपतनयो राज्ञः श्रीषेणस्य पुत्राविन्दुषेणबिन्दुषेणौ / गुणत:-देवरमणयोग्यपुष्पतरुलतादियुक्तत्वाव, अमिधानवत्तेश्च-नामतश्च / द्वेधाऽपि-प्रकारद्वयेनाऽपि / देवस्य रमणमित्यर्थकं, देवरमण-नाम / शाखित तिरुद्धनभाविभागम्-शाखिना वृक्षाणां तत्या श्रेण्या रुद्धः आवृतः नभोविभागः आकाशप्रदेशो येन तत् तादृशं / एतेन वृक्षाणामत्युञ्चस्त्वमुक्तम् / उद्यानम्-उपवनम् / ईयतुः-प्रापतुः // 2 // सम्प्रत्युद्यानमेव न वर्णयति-काऽप्यर्जुनेनेतिकाऽप्यर्जुनेन विलसदचिपार्थिवेन, यत्पाण्डुभूपरिवृढस्य कुलानुकारि। स्फूर्जतप्रियालपनसारमहाप्रमाणं, विद्वनिशान्तमिव कुत्रचनाऽपि यच्च // 3 // - व्याख्या-यद्-उद्यानम् / क्वापि-कुत्रापि प्रदेशे। विलंसद्चिपार्थिवेन-विलसन्ती शोभमाना रुचि कान्तिर्यस्य स विलसद्रुचिः, विलसद्रचिः पार्थिवः पृथिवीविकारः पृथिवीभागरूपो यस्य तादृशेन / अर्जुनेनतदाख्यवृक्षेण, अथ च विलसद्चिपार्थिवेनाऽर्जुनेन-तनामकपाण्डुपुत्रेण / पाण्डुभूपरिवृढस्य-पाण्डुवर्णा या भूस्तत्र परिवृढस्य परिपुष्टस्य वृक्षविशिष्टस्य / अथ च पाण्डुनामा भूपरिवृढः पृथिवीपतिः, तस्य / कुलानुकारि-कुलम्यानुकारि, तथाचोद्यानमिदं कापि प्रदेशविशेषे पाण्डुराजकुलमनुकरोति पाण्डुभूपरिवृढत्वाव पार्थिवार्जुनविशिष्टत्वाञ्चेति भावः। तथा यच्च कुत्रचनापि विद्वन्निशान्तमिव-विदुषां पण्डितानां निशान्तम् गृहम् दिव / स्फूर्जतप्रियालपनसारमहाप्रमाणं-स्फूर्जन्तः / प्रियालानां राजादनाख्यवृक्षाणां पनसानां तदाख्यवृक्षाणाश्च अराः शाखाः महाममाणाः अत्यायताः यस्मिन् तत्तथा / अथ च स्फूर्जव शोभमा यत्प्रियालपनम् मधुरभाषणम्, यद्वा स्त्रीभाषणम् उप. क्षणतया पुरुषभाषणश्च तेन सारं श्रेष्ठं महाप्रमाणश्चातिविशालश्च / तदुद्यानमीयतुरिति पूर्वेण सम्बन्धः / अत्रार्जुनेत्यादिश्लेगनुप्राणितोपमाऽलङ्कारः // 3 // अथ तदनन्तरवृत्तान्तमाह-यावछराशरीतियावच्छराशरि भुजाभुजि चात्र युद्धं, तौ चक्रतुः किमपि चक्रधरप्रभावौ। . आगच्छदेकमवलोकयतः स्म तावद्, व्योम्नो विमानमसमद्युतिदीपिताभ्रम् // 4 // : व्याख्या-अत्र-उद्याने। चक्रधरप्रभावौ-चक्रधरः विष्णुः स इव प्रभावः प्रतापः ययोस्तौ / तौद्वौ राजपुन्नी / यावद्-यदवधि / शरैः शरैश्च मिथः प्रहृत्य प्रवृत्तं युद्धं शराशरि, च-तथा / मुजयोः मुजयोश्च मिथः गृहीत्वा प्रवृत्तं 'युद्धं भुजाभु ज, किमपि-विलक्षणं / युद्धम् चक्रतुः, तावत्-तदवधि / व्योम्न:-आकाशात् / असमद्यतिदीपिताश्रम्-असमयाऽनुपमया द्युत्या कान्त्या दीपितं प्रकाशितमभ्रमाकाशं