SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयः सर्गः 8 यो रागादिविपक्षपक्षदलनाज्ज्ञानप्रकर्षङ्गतो. देवेन्द्रादिभिरर्चनीयचरणोऽवाध्यागमैकान्तभूः। नत्वा तं जिनमाप्तमस्य चरिते व्याख्यां तृतीये स्फुटां, सर्गे संतनुते निसर्गमधुरे विद्याधनो दर्शनः // 1 // तत्र प्रारम्भे स्वेष्टदेवतां स्तौति-उत्तप्तेतिउत्तप्तकाञ्चनविकस्वरचम्पकस्रक - सङ्काशकायरुचिरोचितदिग्विभागः / वृन्दारकै रचितपूजन एष देवः ! श्रीशान्तिरस्तु भवतां शिवतातिरेव // 1 // व्याख्या-उत्तप्तकाश्चनविकस्वरचम्पकस्रक्सङ्काशकायरुचिरोचितदिग्वभाग:-उत्तप्तमग्नौ अतिता. पितं शुद्धं यत्काञ्चनं स्वर्ण यो विकत्वरः प्रफुल्लः चम्पकः चाम्पेयः "चाम्पेयश्चम्पको हेमपुष्पकः” इत्यमरः, तस्य सक माला तयोः सङ्काशा तुल्या या कायस्य शरोरस्य रुचिः कान्तिः तया रोवितः प्रकाशितः दिशां विभागः पूर्वादिरूपः येन स तादृशः बरकनकचम्पकसमशरीरकान्तिः, तथा / वृन्दारकैः-देवैः “गीर्वाणा दानवारयः वृन्दारका देवतानि" इत्यमरः / रचितपूजनः-रचितम् विहितं पूजनं यस्य सं तादृशः, सुरपूजितः / एषप्रस्तुतमन्थनायकः / श्रीशान्तिः-तदाख्यस्तीर्थङ्करः / देवः भवताम्-अध्येत्रध्यापकानां / शिवताति:-शिवकरः, अस्त्वेव / “शिवतातिः शिवङ्कर.” इति हैमः // 1 // - अथेन्दुषणबिन्दुषणयोः किमभूदित्यस्याकाङ्किततया तवृत्तान्तमाह-श्रीषेणभूपतनयावितिश्रीषेणभूपतनयावनयाऽनुरक्ता-वुद्यानमीयतुरथो सुमहारथौ तौ / द्वेधाऽपि देवरमणं गुणतोऽभिधान-वृत्तेश्च शाखिततिरुद्धनभोविभागम् // 2 // व्याख्या-अथो-इति प्रारम्भे, सचिवगमनानन्तरश्च / सुमहारथौ-शस्त्रविद्यायां प्रशस्तवीरौ, किन्तु / अनयानुरक्तौ-अनयेऽनौचित्येऽनुरक्तौ तत्परौ, यद्वा पूर्वोक्तया अनया अनङ्गमत्या अनङ्गमत्यामित्यर्थः, "प्रसितोत्सुकाऽवबद्धैः” / 2 / 2 / 49 // इति सूत्रेणाधारे' तृतीयाविवक्षणाव, अनुरक्तौ अवबद्धौ। तौ-पूर्वोक्तौ /
SR No.004312
Book TitleShantinath Mahakavyam Part 01
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1961
Total Pages282
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy