________________ [ 137 ] नित्यं संसेव्यमानाः कृतसुकृतपरीपाकसाध्यानुरूपश् / कल्याणोदर्कमेते फलमतुलमलं स्वादयामासुरुच्चैः // 148 // व्याख्या-तत्र-तेषां मध्ये श्रीषेणश्चासौ राजा च सः श्रीषेणगजः / पुरुषः-पुमान् / समजनिजातवान् / अस्य च-श्रीषेणनृपस्य / ज्यायसी-ज्येष्ठा। जाया-सा। जाया-भार्या / समजनि / या कनिष्ठा-कनीयसी जाया सा इत्यत्रानुषज्यते / पुरुषः भवति स्म, अस्य च-पुंसः / सा वधूः-भार्या / भामासत्यभामा भवति स्म / एवम्-उक्तप्रकारेण / विगलितविरह-विगलितः विनष्टः विरहः पार्थक्यं यस्मिन् स तादृशः, तम्, सदा साहचर्यभावम् / निष्कपायप्रचारम्-निष्कषायः कषायरहितः प्रचारः खस्वविषयेषु तत्तदिन्द्रियाणां प्रवृत्तिर्यस्मिन् सः तथा तम् / व्याधूतव्याधियाधं-व्याधूता विनष्टा व्याधिः रोगस्तजन्या बाधा पीडा 'पीड़ा बाधा व्यथा दुःखमि'त्यमरः / यस्मिन् स तथा, तम् / धनभवनमहाचिन्तयाधनं भवनं गृहञ्च तयोर्या महाचिन्ता तया। विप्रमुक्तम्-विरहितं / द्वन्द्वभावम्-युगलित्वं, प्राप्य // 147 / / भोगान् भुक्त्वा-अनुभूय। अपत्यावनविरचनया-अपत्यस्य युग्मरूपस्यावनं रक्षणं तस्य विरचनया शास्त्रोक्तमर्यादया क्रमपरिपाटया / स्वं-निजम् / आयुः पूरयित्वा-समाप्य। ते सर्वेऽपि-श्रीषेणादयः / प्रथमदिवपदे-आद्यदेवलोके, सौधर्मकल्पे। देवत्वं-देवभवं / प्राप्य, देवाङ्गनाभिः-सुरस्त्रीभिः / नित्यं संसेव्यमाना:-उपास्यमानाः। एते-श्रीषेणादयः / कृतसुकृतपरीपाकसाध्यानुरूपं-कृतं यत्सुकृतं पुण्यं तस्य परीपाकेन विपाकेन फलाभिमुख्यसम्पत्त्या साध्यस्य अनुरूपं योग्यम् / कल्याणोदक-कल्याणं सुखम् उदर्के उत्तरकाले यस्मिन् तत्तथाविधम् / अतुलम्-अनुपमं / फलमुच्चैः-औन्नत्येन / अलम्-पर्याप्तं ! स्वादयामासुःअनुबभूवुः // 147 / 148 // "आसीत् श्रीगुरुगच्छमौलिमुकुटः' इत्यादिश्लोकस्य व्याख्या पूर्ववदेव बोध्या।।१४९॥ पौर्वापर्ययुते सुपद्यनिचये, गूढाशयोल्लासिते, साङ्गत्येन मिथोऽन्वयानुगमनेऽनेकान्तमार्गाश्रिता / व्याख्या दर्शनमुरिणा विरचिता मर्गे द्वितीये गता, पूर्ति शान्तिचरित्रचर्वणपरा विज्ञप्रमोदप्रदा // 2 // // समाप्तोऽयं सव्याख्यो द्वितीयः सर्गः //