________________ [ 136 ] वंशवदेव-नराट् राजा राज्यौ च तासां प्रेम्णः वशवदा अधीना एव / भानुतनयेनेव-भानुः सूर्यः तत्तनयेन शनैश्चरेणेव मारकत्वादिति भावः / स्वयम्-अयत्नत एव / उपनीतम्-प्राप्तम् / तत्कमलं-राज्ञा आघ्रातं पद्म। जिघ्रतिस्म-तद्वात्सल्येन तदनुमरणं कृतवतीति भावः // 144 // 145 // अथ तेषां प्रेत्य जन्मक्षेत्रं वर्णयति–चत्वार इति - चत्वारश्चतुराः समस्थिषत ते प्रेम्णाऽविभिन्नाशया, जम्बूदीप - गतोत्तरोत्तरकुरुक्षेत्रे त्रिपल्यायुषः / गव्यूतत्रितयोच्छ्या युगलिनः संजज्ञिरेऽनेकधा, कल्पद्रु-व्रजपूर्यमाणहृदया-काङ्क्षाप्रशस्तोदयाः॥१४६॥ व्याख्या-ते-मृताः। चतुरा:-बुद्धिमन्तः / चत्वारः-नृपराज्ञीद्वयसत्यभामाः। प्रेम्णा-स्नेहेन / अविभिन्नाशया:-अविभिन्नः तुल्यः आशयः अभिप्रायो येषां ते तादृशाः / समस्थिषत-मृता इत्यर्थः / परासुप्राप्तपञ्चत्वपरेतप्रेतसंस्थिता एते मृतस्य वाचका" इत्यमरः / जम्बूद्वीपगतोत्तरोत्तरकुरुक्षेत्रे-अस्मिन् जम्बूद्वीपे गतं स्थितम् उत्तरं श्रेष्ठं यदुत्तरकुरुक्षेत्रं तस्मिन्, त्रिपल्योपमानि आयुषि येषां ते त्रिपल्यायुषः-गव्यूतं नोशं “गव्युतं कोश.” इति हैमः, तस्य त्रितयम् क्रोशत्रयम् तावान् उच्छ्रयः उच्चस्त्वं येषां ते गव्यूतत्रितयोच्छया:-तथा। युगलिन:-उत्पत्तौ युगलं द्वयं येषां ते युगलिनः, युगलत्वेन जाताः इत्यर्थः / अनेकधाकल्पद्व्रजपूर्यमाणहृदयाकाङ्क्षाप्रशस्तोदया:-अनेकधा, नानाप्रकारेण कल्पद्रुव्रजेन दशधा कल्पवृक्षण पूर्यमाणाः हृदयस्याकाङ्क्षा अभिलाषास्ताभिः प्रशस्ता उदयाः अभ्युन्नतयः येषां ते तादृशाश्च सन्तः / सजज्ञिरे-उत्पन्नाः / / 146 // तत्र तस्य केन लिङ्गेनोत्पत्तिरित्याह-तत्र श्रीषेणेतितत्र श्रीषेणराजः समजनि पुरुषो ज्यायसी चास्य जाया, सा जाया या कनिष्ठा स्म भवति पुरुषः सा वधूश्वास्य भामा। प्राप्यैवं द्वन्द्वभावं विगलितविरहं निष्कषायप्रचार, व्याघूतव्याधिबाधं धनभवनमहाचिन्तया विप्रमुक्तम् // 147 // भुक्त्वा भोगानपत्यावनविरचनया पूरयित्वा स्वमायुदेवत्वं प्राप्य सर्वे प्रथमदिवपदे तेऽपि देवाङ्गनाभिः /