________________ [ 135 / अपि मृते, तबाह / जलमन्तरेण-जलं विना / नलिनी-कमलिनी / चन्द्रमसा-चन्द्रेण / विना ज्योत्स्ना"चन्द्रिका कौमुदी ज्योत्स्ना" इत्यमरः / स्थैर्य-स्थितिम् / आलम्बते किम् ?-नैवाश्रयतीत्यर्थः / इतीयम्इत्थमेव / सोमन्तिनीनां सौभाग्यवतीनां स्त्रीणां / स्थितिः-व्यवहारः, ते अपि पत्युविना न तिष्ठतः इति भावः // 14 // अथ सत्यभामाप्रवृत्तिमाह-देवीभ्यामितिदेवीभ्यां सहितं हितं नरपति मत्वा विपन्नं ततो, वीक्षापन्नतमाऽपि सत्यकिसुता सा कामविद्वेषिणी / को वा सम्प्रति रक्षिता कपिलतः कोपेन दुर्वाससः, छायां संस्पृशतोऽनुरागवशतो मां नेष्यमाणां हठात् // 144 // सञ्चिन्त्य स्वहदेति तद्गुणगणश्रुत्या प्रसक्तीभव,च्चेतोवृत्ति-भरेण भानुतनयेनेवोपनीतं मुदा। तद्वात्सल्यमतुल्यमेव सहसा संदर्शयन्ती नृराड् राज्ञीप्रेमवशंवदैव कमलं तजिघ्रतिस्म स्वयम् // 145 // व्याख्या-क्त:-तदनन्तरं ! देवीभ्यां-राज्ञीभ्यां / सहितं-सह / हितं-हितकर्तारं / नरपतिराजानं / विपनं मत्वा-ज्ञात्वा, एतेन तस्याः असहायावस्था सूचिता / विषयवैराग्यमपि कथयति / कामविद्वेषिणी-निष्कामा, अत एव / वोक्षापन्नतमा-विज्ञतमाऽपि / सा सत्यकिमुता-सत्यभामा। कोपेनक्रोधेन / दुर्वासमः तदाख्यमुनेः। छायां-मूर्ति / संस्पृशतः-धारयतः, दुर्वासस इव अतिक्रोधमूर्तेरिति भावः। यद्धा दुर्वाससः दुर्घसनाद् नग्नदर्शनागिम्बरत्वादिति भावः / एतेनाकुलीनत्वानुसन्धानेन तद्विषयको निर्वेदो ध्वन्यते / अनुरागवशतः-प्रेम्णः, छायां प्रतिबिम्बम् "छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातप', इत्यमरः / संस्पृशतः अनुसरतः ग्रहीतुं प्रयतमानादित्यर्थः / कपिलतः-कपिलसकाशाद / कोपेन-तत्त्यागानादरजन्यक्रोधेन। हठात्-बला न्नेष्यमाणां-गृह्यमाणां / मां संप्रति-अधुना राज्ञिमृते / को वा रक्षितान कोऽपि रक्षितेत्यर्थ / / 144 / ' इति-इत्थं / स्वहृदा-स्वमनसा / सञ्चिन्त्य-विचार्य / तद्गुणगणश्रुत्यातस्य राज्ञः गुणगणस्य जिनधर्मदृढ़श्रद्धालुताशरणागतरक्षितृत्वादिगुणसमूहस्य श्रुत्या स्मरणेन / प्रसक्तीभवचेतोवृत्तिभरण-प्रसक्तीभवन्ती, अनुरज्यन्ती या चेतोवृत्तिः मनोभावः। तस्याः भरेणातिशयेन / अतुल्यम्अनुपमम् / तद्वात्सल्यम्-नृपस्नेहमेव, सहसा अकस्मात् / सदर्शयन्ती--प्रव टयन्ती / नृराड्राज्ञीप्रेम