________________ [134 ] आगम्य / एते अमात्या मत्या-गत्येति पाठस्य ये गत्यर्थास्ते ज्ञानार्था इति हेतोर्बुद्धयेत्यर्थः। कलितम्अवधारितम् / इम-बिन्दुषेणसम्बन्धि। सर्व व्यतिकरं-वृत्तान्तम् / तम्-इन्दुषेणसम्वन्धि च / यथावृत्तं यथाजातम्, यथातथमित्यर्थः / एतेन कापि पक्षपाताभावः सूचितः / अखिलं-सर्व / भमिभत्रे-रा। शशंसुः कथयामासुः // 141 // तच्छ्रुत्वा राज्ञः प्रवृत्तिमाह-दुर्वारमिंतिदुर्वारं रणसङ्गरं स्वसुतयोर्विज्ञाय विज्ञाग्रणीः, सञ्चिन्त्य प्रतिभावताऽपि विषयानेकान्ततो दुर्जयान / किञ्चित् श्रीजिनराजसंमतमताभिज्ञः प्रियाभ्यां समं, पर्यालोच्य विषाधिवासितमयं जघौं पयोजं नृपः // 142 // व्याख्या-स्वसुतयो:-निजपुत्रयोः / रणसङ्गरं-युद्धक्रियां। दुर्वारम्-अवश्यम्भावि। विज्ञायज्ञात्वा / प्रतिभावताऽपि-बुद्धिमताऽपि / एकान्ततः-निश्चयेन / दुर्जेयान-जेतुमशक्यान् / विषयान्भोगान् / सञ्चिन्त्य-विचार्य / एतेन वैराग्योत्पत्तिः सूचिता / प्रियाभ्यां-स्वभार्याभ्यां / ममं-सह / किश्चितअग्रे कर्त्तव्यं रहस्यं / पर्यालोच्य-विचार्य / श्रीजिनगजमम्मतमताभिज्ञः-श्रीजिनराजस्य वीतरागस्य संमतमिष्टं यन्मतं सिद्धान्तः तस्याभिज्ञः ज्ञाता अत एव / विज्ञाग्रणी:-विज्ञेषु सुधीसु अग्रणी: नायकः प्राज्ञतमः / अयं-श्रीषेणः / नृग:-राजा। विषाधिवामितं पयोज-विषेण गरलेन अधिवासितं सम्पृक्तं कमलं / जघौघातवान्, मरणार्थमिति भावः // 142 / / अथ तदनन्तरं राज्योः प्रवृत्तिमाह-दृष्ट्वा भूमिपतेरितिदृष्ट्वा भूमिपतेर्वपुर्विरहितं हंसेन संविद्वता, ते राज्यौ प्रियशोकमग्नमनसो पद्म समानाय तत् / व्यापन्ने, जलमन्तरेण नलिनी स्थैर्य किमालम्बते, ? ज्योत्स्ना चन्द्रमसा विना स्थितिरियं सीमन्तिनीनामिति॥११३॥ व्याख्या-भमिपतेः-राज्ञः / वपुः-शरीरम्। संविद्वता-सचेतनेन / ईमेन-आत्मना। विरहितंमुक्तं। दृष्टा-अवलोक्य / प्रियशोकमग्नमनपौ-प्रियस्य पत्युः सम्बन्धिनि शोके दुःखे मग्नं विलीनं मनः ययोस्ते द्वे / गड्यौ, तत्-नृपाघातं / पद्म-कमलं / समाघ्राय व्याप-ने-मृते / ननु राज्ञि मृते किमिति ते