________________ [133 ] - अथर भूपप्रतिच्छायतयैव युष्मा-नमात्यमुख्याः ? कलयामि किं न ? सहस्रभानास्तु सहस्रभानोः, को वा मयूखान मनुते विभिन्नान // 139 // व्याख्या-अमात्यमुख्याः ?-सचिवश्रेष्ठाः ? युष्मान्-भवतः / भूपप्रतिच्छायतयैव-भूपस्य राज्ञः प्रतिच्छायतया प्रतिविम्बतया तुल्यतया एव / किन कलयामि-मन्ये, अपितु तथैव मन्ये इत्यर्थः / यद्वा भूप एव युद्धान्निरोधकोऽविवेकी इति तत्प्रतिच्छायतया भवन्तोऽपि तथा इति व्याजस्तुतिः, तत्र दृष्टान्तमाह / तु-यतः / कः वा-जनः / सहस्रमानोः-सूर्याद / सहस्रभानो:-सूर्यस्य / मयखान्-किरणान्, 'किरणोऽसमयूखांशुगभस्तिघृणिरश्मयः" इत्यमरः / विभिन्नान्-विलक्षणान् / मनुते-न कोऽपीत्यर्थः // 139 // अथ स्वोक्तमुपसंहरति-तस्मादितितस्मानरेन्द्राय मम प्रमाणं, प्रापय्य विज्ञापयतः स्वरूपम् / वाचस्पतिप्रातिभशोभिनाङ्गान, भवादृशः शिक्षायतुं प्रभुः कः ? // 140 // व्याख्या-तस्मात्-पूर्वोक्ताव, युद्धाऽनिवृत्तिहेतोः / नरेन्द्राय-राज्ञे। मम प्रणाम प्रापय्य-कथयित्वा, समर्प्य वा। स्वरूपम्-अत्रत्यस्थितिं / विज्ञापयत-निवेदयत, ननु किं स्वरूपमिति भवानुपदिशतु तत्राह / वाचस्पतिप्रातिभशोभिताजान्-वाचस्पतेः गीष्पतेः प्रातिभेन विज्ञानशक्त्या शोभितं समन्वितमङ्गमुपचारादात्मा येषां तान् तादृशान् / भवादृशः-युष्मान् / शिक्षयितुम्-उपदेष्टुं / कः प्रभुः-समर्थः, न, कोऽपीत्यर्थः / प्रनोत्तराभ्यां स्वयमेवानुमाय स्वरूपं निवेदयन्त्विति भावः // 140 // मथ भूमिभत्रेऽमात्यैर्यत्कथितं तदा-तस्य श्रुत्वेतितस्य श्रुत्वा वचनमवनीवासवस्याङ्गजम्य, क्रोधावेश--प्रवरदहनो - मृतधूमप्रकारम् / गत्वा सर्व व्यतिकरमिमं तं यथावृत्तमेते ऽमात्या गत्या(मत्या कलितमखिलं भूमिभत्रै शशंसुः॥१४१॥ व्याख्या-तस्य-कनिष्ठस्य / अवनीवासवस्य-महीन्द्रस्य / अङ्गजस्य-पुत्रस्य / क्रोधावेशप्रखरदइनोद्धतधूमप्रकारम्-क्रोधस्यावेशः आवेगस्स एव प्रखरः उत्कटो दहनो वहिस्तेनोद्भूत उत्थितो यो धूमः स प्रकारः यस्य तत् क्रोधाग्निजधूमतुल्यम् कटुवचनं श्रुत्वा-आकर्ण्य / गत्वा-राक्षः समीपं