________________ [ 132 ] व्याख्या-वीर्योचितं-वीर्य पराक्रम: तस्य उचितं योग्यम् / युद्धविधि-रणक्रियां / प्रकुर्वन्-शक्तेनैव युद्धं कर्त्तव्यमिति भावः, अत एव / सुपुत्रः-सत्तनयः, सत्यपि बले अयुद्धथमानस्तु न सुपुत्रः, कातर्यानुषङ्गादिति भावः / वस्तुः-पितुः / साताय-सुखाय / कथं न ?-अपि तु अवश्यं सातायेत्यर्थः, पुत्रस्य युद्धनैपुण्यं पितुर्हर्षवर्द्धकमेवेति भावः। विपक्षे बाधकमाह। यत्र-यस्मिन् / संयत्पटुता-संति युद्धे "संयत्संमत्याजि" इत्यमरः / पटुता नैपुण्यं / नास्ति तम्मिन क्षत्रिया:-राजानः। क्षत्रियतां-क्षत्रियभावं / न वदन्ति-क्षत्रियस्य भावो हि रणपाटवम्, क्षत्रियाणां रणस्यानुवंशकत्वादिति रणं त्यजन् क्षत्रियः म्ववंशकृत्यमेव त्यजतीति स पितु : साताय न प्रभवतीति भावः // 136 // यदप्युक्तं नरेन्द्रकन्याः शतश इत्यादि तदप्यविचारिताभिधानमित्याह-जन्यप्रवृत्तेरिति -- जन्यप्रवृत्तेविनिवर्तमानं, राजन्यकन्याः कथमेव धन्याः। कातर्यचर्यापरिशोच्यवृत्ति, विवोढमुत्साहमपि प्रकुर्युः // 137 // व्याख्या-धन्याः-प्रशस्याः। राजन्यकन्या:-राजन्यानां क्षत्रियाणां कन्याः पुत्र्यः / जन्यप्रवृत्तेःजन्यस्य युद्धस्य प्रवृत्तेरद्योगाव। विनिवर्तमानं--पराङ्मुखीभवन्तम्, अत एव / कातर्यचर्यापरिशोच्यवृत्तिंकातर्यस्य भीरत्वस्य या चर्या आचारः तेन परिशोच्या निन्दनीया वृत्तिः प्रवृत्तिर्यस्य तं कातरम् / विवोटु वरीतुम् / उत्साहम्-प्रबलमनोभावं। अपि, कथं कुयुः-नहि क्षत्रियकन्याः कातरं परिणयन्ति किन्तु वीरमिति भावः / एवञ्च युद्धत्यागेऽनर्थपरम्परेति // 167 / / यदपि त्वया अमृतेनेव पितेति तदपि न घटते इत्याह-आयोधनमिति - आयोधन योधशताकुल यो, विध्य तिष्ठेदपि निर्विशङ्कः / न पुत्रिता तेन पितुः स किन्तु, हिये भवेत् प्रत्युत पूर्वजानाम् // 138 // व्याख्या-योधशताकुलं-योधानां भटानां शतानि तैः आकूलं पूर्णम् / आयोधनं-युद्धम्, 'युद्धमायोधनं जन्यमित्यमरः / विधूय-विहाय / य:-जनः / निर्विशङ्कः-निरुद्वेगः सन् / तिष्ठेदपि, तेनयुद्धविमुखेन / पितुः-जनकस्य / पुत्रिता-पुत्रवत्ता / न, किन्तु-प्रत्युत / सः-पुत्रः / पूर्वजानां-पित्रादीनां / हिये-लज्जायै / भवेद-तव पुत्रः युद्धाद कातर्येण विमुख इति कुलकलङ्कादिति भावः // 138 // सम्प्रति व्याजोक्त्या सचिवान् स्तों