________________ [ 131 ] स्मितोद्गमः / स्यात्-हास्योद्गमे हि मम प्रतिज्ञाहानिः, तस्याश्चाऽभावाद्धास्यनिमित्तमेव न वर्तते इति कुतो हास्योदय इत्यर्थः / प्रत्युत प्रतिज्ञात्याग एव हास्योदयनिमित्तमित्यतोऽपि न युद्धत्याग उचित भावः // 13 // यदप्युक्तं राज्यस्य हेतोयुद्धं तदपि नैकान्तेनेत्याह-राज्य नेतिराज्यं न सप्ताङ्गमिदं विधत्ते, शर्माणि पुंसां गुणलालसानाम् / नवाङ्गसौन्दर्यविधानभूता, वधूर्यथा मन्मथरङ्गशाला // 134 // व्याख्या--गुणलालसानां-गुणेषु लालसाः लम्पटाः तेषाम्, 'लम्पटो लालसोऽपि च' इत्यमरः / गुणजिघृक्ष णां / पुसां-जनानाम् / इदं त्वदुक्तं। सप्ताङ्गम्, राज्यम्-तथा शर्माणि-सुखानि / न विधत्ते-करोति / यथा नवाङ्गसौन्दर्यविधानभृता-नवेषु तारुण्येन प्रत्यग्रेषु अङ्गेष्ववयवेषु यत्सौन्दर्यस्य विधानं व्यवस्थानं तद्भूता सौन्दर्याप्रयभूमिः अत एव / मन्मथरङ्गशाला-मन्मथस्य कामस्य रङ्गशाला क्रीडामूमिः / बधूः- भार्या-शर्माणि विधत्ते / एवञ्च राज्यादपि शर्मविधायकतया वध्वर्थमवश्यं योद्धमिति भावः // 134 // निवर्तमानं स्तोष्यन्ति यदुक्तं तदपि न समीचीनमित्याह-प्रतिश्रवमितिप्रतिश्रव यो विजहाति यो वा, रणक्रियायाः विनिवर्त्तते तु / अप्रेक्षणीयानन एव पुंसां, कथं श्रुतेर्गोचर एव स स्यात् // 135 // व्याख्या-यः-जनः / प्रतिश्रवं-प्रतिज्ञा “संप्रत्याभ्यः परः श्रवः प्रतिज्ञा" इति हैमः / विजहातित्यजति / यो वा-तु, अथवा यस्तु / रणक्रियाया:-युद्धाद् / विनिवर्तते-परामुखो भवति / अप्रेक्षणीयमनवलोकनीयमाननं मुखं यस्य सः अप्रेक्षणीयाननः-लज्जयेति भावः, मिथ्यावाक्त्वस्य कातर्यस्य चाऽऽसङ्गात् / एवेति निश्चये / सः-जनः / पुंसां-सत्पुरुषाणाम् / श्रतः-श्रवणस्य / गोचरः-विषयः / एव कथं स्यात् ?नैव स्यात, नासत्यवादिनं कातरं वा सत्पुरुषाः शृण्वन्त्यपीति भावः / अत्राप्रेक्षणीयाननत्वेन हेतुना श्रुतेरगो. चरत्वस्य साधनादनुमानाऽलङ्कारः / तल्लक्षणं यथा अनुमानं विच्छित्याज्ञान साध्यस्य साधनादिति // 135 / / यच्चाप्युक्तं भूमीशिता शर्म नैव विन्दतीति तदपि न समञ्जसम् इत्याह-वीर्योचितमितिवीर्योचितं युद्धविधिं प्रकुर्वन्, वप्तुर्न साताय कथं सुपुत्रः ? न यत्र संयत्पटुताऽस्ति तस्मिन्न-क्षत्रियाः क्षत्रियतां वदन्ति // 136 //