________________ [ 130 ] परःसहस्रा भुवि सन्ति शूरा, विजित्य तानेष न शर्मणास्ते / ततो गतिं यास्यति संवरारे-विजेतुकामस्य हिमांशुमौलिम् // 131 // व्याख्या-भुवि-पृथिव्यां / परःसहस्राः सहस्रात्परे इति परः सहस्राः सहस्राधिकाः / शूरावीराः / सन्ति, तानेव-शूरान् / विजित्य-पराजित्य, एष मम भ्राता / शर्मणा-सुखेन / न आस्ते-अत्युद्धतशक्तिकत्वादेवेति भावः / ननु तहिं त्वयैव सह युद्ध्वा किं स सुखमवाप्स्यतीति चेत्तत्राह / ततः तस्माद्धेतोः, हिमांशुमौलिं-हिमांशुश्चन्द्रः 'हिमांशुश्चन्द्रमाश्चन्द्र' इत्यमरः, मौलौ मस्तके यस्य तं तादृशं महादेवं / विजेतुकामस्य-वशीकर्तुमनसः। संवरारे:-कामस्य “कामः पञ्चशरः स्मरः, संवरारिमनसिजः” इत्यमरः / गति यास्यति-प्राप्स्यति, मया हनिष्यतेऽयमित्यर्थः / अत्र शिवं जिगीषुः कामः शिवेन दग्ध इति पौराणिकी कथा अनुसन्धया // 13 // यदप्युक्तं वाराङ्गना चलहार्दपात्रं, तदपि न सम्यक् वैपरीत्यस्यापि दर्शनादित्याह-एकान्तत इति एकान्ततो नैव पणाङ्गनाया, विभंगुरं प्रेम निरीक्ष्यते वा / कुलाङ्गनाया इव रञ्जयन्त्याः , स्वकामुकं मोहनम भङ्गया // 132 // व्याख्या-वा-किश्च / स्वकामुकं-स्वस्य कामुकं कामयितारं प्रियं / मोहनमञ्जमङ्गथा-मोहने, मञ्जः चतुरा या भङ्गी विलासः तया, कटाक्षविक्षेपादिभावेन / रजयन्त्याः -हृदयमावर्जयन्त्याः / पणाङ्गनाया- वारनार्या अपि / कुलाङ्गनायाः- कुलवध्वाः / इव, प्रेम-प्रीतिः / एकान्ततः-निश्चयेन / विभङ्गरंविनश्वरं / न निरीक्ष्यते-अवलोक्यते, पणाङ्गनाप्रेम भङ्गुरमेवेति न किन्तु स्थिरमपि / तदुक्तं साहित्य- . दर्पणे 'कचित्सत्यानुरागिणी' इति / एवञ्च न तदपि युद्धत्यागे हेतुरिति भावः // 132 / / यदपि द्विषत्परिहास उक्तः, तदप्यनवसर इत्याह-प्रतिश्रुतमितिप्रतिश्रुतं स्वं यदि न त्यजावः, कथञ्चिदावां विदिताभिमानौ / तदा कथङ्कारमकारणः सन्, हास्योदयः स्याद् द्विषतां मुखेषु // 133 // व्याख्या-विदिताभिमानौ-विदितः ज्ञातः अभिमानः अहम्भावः ययोस्तौ तादृशौ, एतच्च प्रतिश्रुताऽत्यागे हेतुः / आवां-द्वौ / कथश्चित्-केनाऽपि प्रकारेण / स्व-निजं / प्रतिश्रतं-प्रतिज्ञातं / न त्यजावः तदा कथङ्कार-कुतः / द्विषतां-शत्रूणां / मुखेषु-आस्येषु / अकारण:-अनिमित्तः : सन, हास्योदयः