________________ [ 129 1 व्याख्या-वास्ताः-अनेकप्रकाराः, पूर्वोक्ताः / अमात्यवाणी:-अमात्यानां, सचिवानां वाणीः उक्तिः / अवधार्य-श्रुत्वा। सः-प्रार्थ्यमानः / बिन्दुषेणः, स्फुटं-स्पष्टम् / आललाप-उवाच, किमित्याह / भवद्भिःसचिवैः। यदुक्तमिदं समस्तम्-अखिलम् / एव प्रशस्तं-प्रशंसाहम्, अत एव / योग्यभावम्-योग्यतामौचित्यम् / अञ्चति-गच्छति / / 128 / / यदुक्तं मा युद्धथस्वेति तत्राह-केनाऽपीतिकेनाऽपि साद्धं न विरोधमाधा-माजन्मसीमं भवतामपीदम् / प्रतीतमत्युद्धतशक्तिभाजा, भ्रात्राऽधुनाऽमाध्यमुपस्थितो मे // 129 // व्याख्या-आजन्मसीमम्-आजन्मनः सीमा अवधिस्तस्मात् जन्मनः आरभ्याद्यावधि / केनाऽपिजनेन सार्द्धम्, विरोध-विद्वेषं / न आधाम्-अकार्षम् / भवतां-सचिवानाम् / अपि इदं-विरोधाकरणं / प्रतीतं-ज्ञातमेव / अधुना–साम्प्रतम् / अत्युद्धतशक्तिभाजा-अत्युद्धतामत्युत्कटां शक्तिं बलं भजतीति स तेन, अत्युप्रशक्तिकेन / भ्रात्रा-ज्येष्ठेन सहोदरेण / अमा-सह / मे-मम / अयं-विरोधः / समुपस्थित:जातः, अस्तीति शेषः / सर्वथाऽविरोधकारिणो मम भ्रात्रैव सह स असाधारणकारणेनैव जातः, नान्यथेति भावः // 129 // यदुक्तं स्त्रीमात्रं कारणं तन्नेत्याह-स्त्रीमात्रमिति स्त्रीमात्रमित्यत्र निमित्तमात्र, जानीत यूयं परमार्थतस्तु / दोर्दण्डकण्डूमपनेतुमिच्छु-युवा मयैवायमुदप्रधामा // 130 // व्याख्या-स्त्रीमात्रं-कारणमिति-यदुक्तं / तत्र, निमित्तमात्रमित्येवं / यूयं जानीत-न तु वस्तुतस्तन्निमित्तम्, तर्हि किं निमित्तमित्याह / परमार्थतस्तु - वस्तुतः पुनः / अयं-सोदरः, उदप्रम् उत्कटं. धाम प्रभावः यस्य स उदग्रधामा, मया-सहैव / युद्धवादोदंण्डकण्ड-दोषोर्बाह्वोः दण्डौ काण्डौ तयोः कण्डूं खर्जुम / “कण्डूः खजू:" इतिहैमः / अपनेतुं-दूरीकर्तुम् / इच्छु:-अभिलाषुकः, तादृशम्य प्रतिभटस्यान्यस्याऽभावादिति किमपि निमित्तमासाद्य तथाकर्तुं प्रवृतः इति भावः // 130 / / अन्येन नास्य कण्डूशमनमित्याह-परः सहस्रति