________________ [128 ] परस्परं प्रेम्णा / एव पितरौ-मातापितरौ / प्रहृष्टौ-मुदितौ / संस्त:-सम्भवतः, नत्वप्रीत्या / एवञ्च युद्धत्यागे नृपः प्रहृष्यादित्यपि लाभस्ते तस्मायुद्धं न कर्त्तव्यमिति // 125 // ननु कन्यालाभः कथमिति चेत्तत्राह-नरेन्द्रेतिनरेन्द्रकन्याः शतशो भवन्तं, स्वयंवरीतुं रभसागभीरम् / समागमिष्यन्ति यथा समुद्र, नद्यो रसोल्लासविलासमध्याः॥१२६॥ व्याख्या-गभीरं-विचारकारित्वाव धीरम् / भवन्तं त्वां। शतशः नरेन्द्रकन्या:-राजपुत्र्यः / रमसात-वेगाव प्रबलाकर्षणात् / स्वयम्-आत्मनैव, न तु प्रार्थनादिना इति भावः / वरीतुं-स्वीकर्तुं / समागमिष्यन्ति, रसोल्लासबिलासमध्या:-रसस्य प्रीतेः उल्लासोऽतिरेकः तस्य विलासः मध्ये हृदये यस्याः तादृश्यः / अथ च रसो जलम् तस्योल्लासः वृद्धिस्तस्य विलासः मध्येऽन्तः यस्याः तादृश्यः / नद्यः-आपगाः, गभीरं निम्न “निम्नं गभीरं" इति हैमः / समुद्रम्-उदधिं / यथा-समागच्छन्ति तथेत्यर्थः // 126 // अथ सचिवोक्तमुपसंहरति-संग्राममितिसंग्राममग्राम्यकविस्तवार्ह !, प्रोज्झ्य प्रकामं सुषमां लभस्व / त्वयाऽमृतेनेव पिता रसेशो, न कालकूटेन स तेन पुत्री // 127 // व्याख्या-अग्राम्यश्चासौ कविश्च स तथा, निपुणः कविः तस्य स्तवं स्तुतिमर्हतीति स्तवार्हः, तत्संबोधने। अग्राम्यकविस्तवाह!-सुकविवर्णनीय ! संग्राम-युद्धं / प्रोज्झ्य-त्यक्त्वा / प्रकामम्-अत्यधिकम् / सुषमांपरमां शोभा / लभस्व, त्वया-भवता / अमृतेन-सुधया / रसेशः-रसो जलं तस्येशः पतिः समुद्रः / इव-रसा पृथ्वी तस्याः ईशः महीमतिः / पिता-जनकः श्रीषेणः / पुत्री-पुत्रवान् / कालकूटेन-हलाहलेन विषविशेषेण, रसेश इव पिता तेनेन्दुषेणेन स पुत्रवान् न / यथा अमृतेन समुद्रः पुत्री, न कालकूटेन तथा त्वया राजा पुत्री न तेनेत्यर्थः / उपमाऽलङ्कारः // 12 // अथ बिन्दुषेणस्य प्रत्युत्तरमाह-अमात्येति - अमात्यवाणीरवधार्य तास्ताः, स बिन्दुषणः स्फुटमाललाप / उक्तं भवद्भिर्यदिदं समस्तं, प्रशस्तमेवाञ्चति योग्यभावम् // 128 //