________________ [127 ] . एवं स्थिते यद् युक्तं ते प्रतिभाति तव कुरुष्वेत्याह-ज्यायानिति - ज्यायानमदोन्मादविसंस्थुलत्वात्, स तेऽस्मदुक्तं यदि नो शृणोति / उपेक्ष्य तं सन्निधिमागतास्ते, कुरुष्व युक्तं प्रतिभाति यत्ते // 123 // व्याख्या-मदोन्मादविसंस्थुलत्वात-मदेन चित्तोद्रेकेग मिथ्याभिमानेन य उन्मादः अप्रेक्ष्यकारित्वं तेन विसंस्थुलत्वाव प्रस्तत्वात् / स-युयुत्सुः / ते-तव / ज्यायान्-ज्येष्ठः भ्राता। अस्मदुक्तं-वचनं / यदि-यतः / नो शृणोति-अतः। तं-तव ज्यायांसम् / उपेक्ष्य-विहाय / ते-तव / सन्निधिं-समीपम् / आगताः-प्राप्ताः, अधुना। ते-तव / यद् युक्तम्-उचितम् / प्रतिभाति तत् कुरुष्व-नात्रास्माकं कापि हानिसंभो वा, किन्तु तव हिनं त्वयैव विचारणीयमलं ममोपदेशेनेति भावः // 12 // ननु भवन्तः सचिवाः, अतः भवतां स्वाभिप्रायप्रदर्शनमुचितमेवेत्यतः स्वाभिप्रायमाह-निवर्तमानमिति निवर्तमान समरक्रियायाः, स्तोष्यन्ति सर्वेऽपि भवन्तमेकम् / विचारमारभ्य विनिर्मिमीते, यः कर्म केनापि न निन्द्यते सः // 124 // व्याख्या-समरक्रियायाः-युद्धोद्योगात् / निवर्तमान-विमुखीभवन्तं / भवन्तं-त्वामेष एक केवलं 'केवलः कृत्स्न एकः स्याल्केवलश्वावधारणे" इत्यमरः / सर्वेऽपि-जनाः। स्तोष्यन्ति-वर्णयिष्यन्ति, ननु युद्धाद्विमुखं निन्दिष्यन्त्येव कुतो नेति चेत्तत्राह / य:-जनः / विचारमारभ्य-विचार्य। कर्म-क्रियां ! विनिर्मिमीते-करोति / सः-जनः / केनाऽपि-जनेन / न निन्धते-आमिप्यते / अविचार्यकारी हि निन्दापात्रम्, न तु विचार्यकारीति भावः। राशोऽप्येतेन भवतोः कर्मणा दुःखमिति कथति-अतादृशमिति अतादृशं वां रणकर्म शृण्वन, भूमीशिता विन्दति नैव शर्म / यतश्विरालालितयोः स्वसून्वोः, प्रीत्यैव संस्तः पितरौ प्रहृष्टौ // 125 व्याख्या-वा-युवयोः। अतादृशम्-अयोग्यं / रणकर्म युद्धं शृण्वन्-आकर्णयन् / भूमीशितानूपोऽपि शर्म-सुखं / न विन्दति-न लभते, कुत इत्याह / यतः चिराव-प्रचुरकालाद / लालितयो:नेहेन पालितयोः। स्वमन्बो:-निजपुत्रयोः "आत्मजस्तनयः सूनुः सुतः पुत्रः" इत्यमरः / श्रीत्या