________________ [ 125 ] भङ्गप्रवणा विनाशपरायणा एतादृशी या प्रतिज्ञा मदीया तस्या लज्जा त्रपा / युष्मान्-भवतः / न समालिङ्गति किम १-भवतो न स्याकिम् ? अपि त्ववश्यं स्यात् / स्वामिप्रतिज्ञाभङ्गे तभृत्या अपि लज्जन्ते इति भावः // 117 // ____ तत्रानाप्तफलानां सचिवानां बिन्दुषेणसमीपगमनमाह-दुराग्रह मितिदुराग्रहं तस्य विबुध्य चित्तं, ततः समुत्थाय च धीसखास्ते / श्रीबिन्दुषेणं समुपेत्य नत्वा, नृपोदितं विज्ञपयाम्बभूवुः // 11 // व्याख्या-तस्य-इन्दुषेणस्य / चित्ते-हृदये, पूर्वोक्तेन हेतुना / दुराग्रह-कदभिनिवेशं / विबुध्यज्ञात्वा / ते धीसखा:-मन्त्रिणः / ततः-इन्दुषेणपार्श्वतः। समुत्थाय च श्रीबिन्दुषेणं समुपेत्य-गत्वा प्राप्य / नत्वा-प्रणम्य / नृपोदितं-श्रीषेणोपदिष्टम् / विज्ञपयाम्यवः-निवेदयामासुः // 118 // इदानीं सचिवकृतोपदेशं प्रपञ्चयति-उभावितिउभौ भवन्तौ मिलितौ चकास्तः, प्रध्वस्तमात्सर्यभरौ कुमार ! स्वरूपनिर्सित-विश्वरूपो, दस्राविव क्षोणितलावतीर्णौ // 119 // व्याख्या-कुमार ! प्रध्वस्तमात्सर्यभरौ-प्रध्वन्तः दूरीकृतः मात्सर्यस्य परोत्कर्षाऽसहिष्णुत्वस्य भरोऽतिशयः याभ्यां तौ तादृशौ सस्नेही सन्तौ / उभौ-द्वौ अपि / भवन्तौ मिलितौ-सङ्गतौ। स्वरूपनिर्सितविश्वरूपौ-स्वरूपेण स्वाकृत्या निर्भत्सितं विश्वस्य सर्वस्य रूपं सौन्दर्य याभ्यां तो असाधारणसौन्दर्यशालिनौ / क्षोणितलावतीौँ-क्षोणितले महीतले अवतीर्णौ समुत्पन्नौ / दसौ-आश्विनेयाविव "नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ" इत्यमरः / चकास्तः-शोभेते, अमिलितौ विरुद्धौ च न तथा शोभेयातामिति भावः // 19 // न केवलं शोभाहानिरेव युद्धात्किन्तु द्विषत्परिहासोऽपीत्याह-द्वयोर्विरोधमिति द्वयोर्विरोधं भवतोर्निशम्य, स्मयोन्मुखानि द्विषतां मुखानि / कथं भविष्यन्ति न यद्विषां स्या-न्मुद्विप्रलापैर्न च विप्रलापैः // 120 //