________________ [ 124 ] उपायताद्यापि न तां नताङ्गी-मयं च सा तं च न सातलिप्सुः। . विनैव सम्बन्धमियं वधूस्ते, युष्माभिरुक्तं किमिदं प्रशस्तम् // 115 // व्याख्या-अद्यापि-एतत्क्षणं यावत् / तां नताङ्गीम्-कशोदरीम् / अयं-मम कनीयान् बिन्दुषेणः / न उपायत-पर्यणैषीत् / सातलिप्सुः-सातस्य सुखस्य रिप्सुः सा सुखैषिणी, एतेन तत्सम्पर्के अस्याः दुःखमिति सूच्यते / “शर्मसातसुखानि च" इत्यमरः / सा. तं-विन्दुषेणं / चन-उपायतेति सम्बद्धयते। एवञ्च / सम्बन्ध-वैवाहिकविधि / विनैव युष्माभिः-भवद्भिः / इयं ते वधूः-इति यदुक्तम् / इदं-वचनं / प्रशस्तम्--उचितं / किम् ?..सम्बन्धं विना तादृश्युक्तिः अत्यन्तमनुचितेत्यर्थः / नहि सम्बधं विना काऽपि कस्यापि वधूरिति भावः // 115 / / यदप्युक्तं सा लज्जिष्यत इति तदपि न युक्तमित्याह-स्वयंवरार्थमितिस्वयंवरार्थ स्वयमागता सा, दृष्ट्वा रणं नौ भविता प्रहृष्टा / न क्षत्रियाणां वणिजामिवाजिं, विहाय कर्मापरमस्ति किञ्चित् // 116 // व्याख्या-स्वयंवरार्थ-स्वयंवरणाय / स्वयम्-आत्मनैव। आगता-उपस्थिता / सा नौ-आवयोः / रणं-युद्धं / दृष्ट्वा प्रहृष्टा-प्रसन्ना। भविता-योग्यायोग्यपरीक्षणस्य सुकरत्वादिति भावः, प्रत्युत नायं स्वकर्मभीरुरिति तस्याः गाढ़ानुराग एव भवेदित्यर्थः, तदेवाह / वणिजां-व्यवहतणां। कर्म-व्यवहारम् / इव, क्षत्रियाणां-राज्ञाम् “राजा प्रभौ नृपे चन्द्रे यक्षे क्षत्रियशक्रयो"रिति कोशः / आजि-युधं “समित्याजिसमियुधः” इत्यमरः / विहाय-मुक्त्वा / अपरं-द्वितीयं / किश्चित्-कर्त्तव्यं / न अस्ति // 116 // ___ प्रत्युत युद्धान्निवृत्तावेव लज्जेत्याह - तत इति - ततो निवर्ते यदि सम्पराया-दहं परामृश्य कथञ्चनापि / आरब्धभङ्गप्रवणप्रतिज्ञा-लजा समालिङ्गति किं न युष्मान् // 117 // व्याख्या-ततः तस्मात् कारणात् / यदि, सम्परायात्-युद्धाद “युद्धायत्योः सम्परायः” इत्यमरः / कथञ्चनापि-केनापि प्रकारेण, लाघवगौरवत्यागेनापि इत्यर्थः। परामृश्य-गुरुनिदेशादिविचार्य / अहम्निवर्ते-पराङ्मुखो भवामि, तदा। आरब्धभङ्गप्रवणप्रतिज्ञालज्जा-पूर्वम् आरब्धा कृता तदनन्तरमेव